________________
अष्टमदोषोऽपवादश्च] विवाहप्रकरणम् ६ ।
२७१ क्रमेण स्यादित्यर्थः। पापग्रहसाहित्येऽशुभफलं राहुकेत्वोरपि द्रष्टव्यम् । यदाह नारदः–'शशांके ग्रहसंयुक्ते दोषः सग्रहसंज्ञकः । सूर्येण संयुते चंद्रे दारिद्यं भवति ध्रुवम् ॥ कुजेन मरणं व्याधिः सौम्येन त्वनपत्यता । दौर्भाग्यं गुरुणा युक्ते सापल्यं भार्गवेण तु ॥ प्रव्रज्या सूर्यपुत्रेण राहुणा कलहः सदा । केतुना संयुते चंद्रे नित्यं कष्टं दरिद्रता ॥ तस्मिन्सग्रहदोषे तु विवाहं नैव कारयेत्' इति । सापल्यं सपत्नीभावः । सापत्यं भर्तुः स्यंतरं स्यात् । अत्र गुरुबुधसाहित्यफलमशुभमुक्तं, ग्रंथकर्ता तु वसिष्ठवाक्ये केचिन्मताभिप्रायेण शुभफलमुक्तम् । तदुक्तं वसिष्ठेन–'दारियं रविणा कुजेन मरणं सौम्येन न स्युः प्रजा दौर्भाग्यं गुरुणा सितेन सहिते चंद्रे ससापत्नकम् । प्रव्रज्यार्कसुतेन सेंदुजगुरौ वांछन्ति केचिच्छुभं ध्याद्यैर्मृत्युरसगुहैः शशियुतैर्दीर्घः प्रवासः शुभैः ॥' इति । अत एव श्रीपतिनोक्तम्-'शुभं च दंभोऽलिभृदिज्यविद्याम्' इति । दंभोलिवज्रस्तं बिभर्ति स दंभोलिभृदिंदस्तस्येज्यः पूज्यो बृहस्पतिरित्यर्थः । पापेति । पापद्वयेन युते उपलक्षणत्वात्पापत्रयादिभिर्युते मृतिरेव स्यात् । 'पापद्वययुते चंद्रे दंपत्योर्मरणं ध्रुवम्' इति नारदोक्तेः। बहुसौम्यग्रहयोगे तु बहुकालं पत्युर्देशांतरेऽवस्थानं स्यात् । तद्वाक्यमधुनैवाभिहितम् । अथास्य परिहारो नारदोक्तः–'स्वक्षेत्रगः स्वोच्चगो वा मित्रक्षेत्रगतो विधुः । युतिदोषाय न भवेइंपत्योः श्रेयसे तदा ॥' इति । क्वचिद्वर्गोत्तम इति पठ्यते । कश्यपेनापि-'तुंगमित्रस्वराशिस्थः शुभयुक्तः शुभप्रदः । एवंविधः क्रूरयुतः संपूर्णफलदः शशी ॥' इति ॥ ४३ ॥ अथाष्टमलग्नदोषं सापवादमनुष्टुभाह
जन्मलग्नभयोम॒त्युराशौ नेष्टः करग्रहः ।
एकाधिपत्ये राशीशे मैत्रे वा नैव दोषकृत् ॥ ४४॥ जन्मलग्नेति ॥ जन्मलग्नजन्मराश्योः संबंधिनि मृत्युराशावष्टमलग्ने करग्रहो नेष्टः । यदाह नारदः-'दंपत्योरष्टमं लग्नं त्वष्टमो राशिरेव च । यदि लग्नगतः सोऽपि दंपत्योर्निधनप्रदः ॥ स राशिः शुभयुक्तोऽपि लग्नं वा शुभसंयुतम् । लग्नं विवर्जयेद्यत्नात्तदंशांश्च तदीश्वरान् ॥' इति । निधनं मरणम् । अन जन्मलग्ने जन्मराशौ च विशेषमाह कश्यपः-'इष्टं स्वजन्मलग्नं तजन्मराशिरनिष्टदः। लग्नगस्तु तयोः स्थानाच्छुभान्युपचयानि वै ॥' इति । नारदोऽपि—'जन्मराश्युद्गमो नैव जन्मलग्नोदयः शुभः। तयोरुपचयस्थानं यदि लग्नगतं शुभम् ॥' इति । अथाष्टमलग्नदोषपरिहारमाह-एकेति । जन्मराशिजन्मलग्नयोरन्यतरस्य विवाहलग्नस्य च स्वाम्यैक्ये सति यथा मेषवृश्चिकयोः तथा तयो राशीश्वरयोः मैत्रे यथा सिंहमीनयोः । अत्र हि सूर्यगुर्वोरन्योन्यप्रीतिरस्ति, एतादृशविषये लग्नाष्टमदोषकृद्विवाहो न स्यात् । यदाह