________________
मुहूर्तचिंतामणिः। [सग्रहदोषः फलदातृत्वं वचनाद्वोध्यते, तथा विवाहेऽपि प्रागुक्तवसिष्ठवाक्यादपि तत्र तुल्यन्यायत्वात्कर्तरीदोषे सत्यप्यदृश्यत्वे फलदातृता त्वयापि वक्तव्यैव । ननु'पापयोः कर्तरीकोंः शत्रुनीचगृहस्थयोः । यदा चास्तगयोर्वापि कर्तरी नैव दोषदा ॥' इति कश्यपाद्युक्तेरस्तंगतत्वेन राहुकेत्वोः कर्तरीदोषो नास्तीति चेत्-भ्रांतोऽसि, शृणु-'संभवे व्यभिचारे च स्थाद्विशेषणमर्थवत्' इति न्या. यादस्तगत्वविशेषणं भौमस्य ऋरयुक्तबुधस्य शनेति त्रयाणामेव संभवति न संभवति च । सूर्यस्तु नित्योदित एव, राहुकेतू नित्यास्तमिताविति व्यभिचाराभावात्रयाणां नैव विशेषणम् । यथा-'एत्येधत्यूठसु' इत्यत्रानुवर्तमानमेग्रहणं संभवव्यभिचाराभ्यामेतेरेव विशेषणम् । यथा उपैति उपेत इति । नत्वेधतेरेजादित्वादेव नाप्यूठोऽनेजादित्वादेवेति । तस्मादीदृशे विषयेऽयं परिहारो न प्रवर्तते । किंच किमस्तगत्वं क्षितिजसंनिधिकृतमुत सूर्यसान्निध्यकृतं वेति ? तत्र क्षितिजसन्निधिकृतं यत्तत्सूर्यादिसकलग्रहसाधारणम् । तथा सत्यस्तगतत्दविशेषणवैयर्थ्यम् । प्रागुक्तन्यायात् । राहोस्तु नारदादिवाक्याच्छिरोरूपमंडलावगतेः 'इंद्वर्कमंडलाकृतिरसितत्वात्किल न दृश्यते गगने' इति वराहोक्तेस्तमोरूपत्वात्ताहक्स्वरूपानुपलब्धेरगोचरत्वम् । परं स्थानमप्यस्य चंद्रशरमंडलाक्रांतिमंडलस्वस्तिके । यदाह केशवार्कः-'वेश्म चास्य शशभृद्विमंडलक्रांतिमंडलमिलञ्चतुष्पथे' इति । अत एव न विद्यते गावः किरणा यस्येत्यगुरित्यन्वर्थताप्यवसीयते । अथ यदि सूर्यसन्निधिकृतमित्युच्येतेति चेन्न । इतरग्रहवद्राहोरप्युदयास्तप्रसिद्ध्यभावात् । किंच कालांशानभिधानात्कदोदितः कदास्तमितश्चेति निणेतुमशक्यत्वात् । एवं केतोरप्येतद्रष्टव्यम् । ननु केतूदयो ह्युत्पातादौ प्रत्यक्षतो दृश्यत इति चेन्न । तस्यानियतदिक्प्रभवत्वात् भनियतनक्षत्रप्रमेयत्वाश्च । किंच केतूत्पातो हि लोके दुरदृष्टसूचकः भनियतेन बहुना स्वल्पेनापि वा कालेन भवेत् । सूर्यसान्निध्यकृतोदयास्तौ तु नियतकालावेवेति तयोः केत्वोर्भेदः स्वीकर्तव्यस्तस्मादाहुकेतू सदा दृश्यावेवेति प्रागुक्तदोषानवसरः । तस्मास्थितं राहुकेत्वोर्द्वितीयस्थानस्थितत्वेन वक्रित्वात्कर्तरीदोषोऽस्त्येवेति सिद्धांतः। ननु ग्रहाणां कथं शुभा. शुभफलदातृत्वमरिष्टपरिहारकर्तृत्वं च? यत:-'यदुपचितमन्यजन्मनि शुभाशुभं तस्य कर्मणः पक्तिम् । व्यञ्जयति शास्त्रमेतत्तमसि द्रव्याणि दीप इव ॥' इति स्वसिद्धांतव्यमातः । सत्यम् । उपरिष्टाञ्चिन्तयिष्यतेऽस्माभिरेतदित्यलमतिप्रसंगेन ॥ ४२ ॥ अथ सग्रहदोषमनुष्टुभाह
चंद्रे सूर्यादिसंयुक्ते दारिद्यं मरणं शुभम् ।
सौख्यं सापत्यं वैराग्यं पापद्वययुते मृतिः ॥ ४३ ॥ चंद्रे इति ॥ सूर्ययुक्त चंद्रे दारिद्यं स्यात् । भौमादियोगे मरणादिफलं