________________
२६९
राहुकेत्वोः क्रूरत्वविचारः ] विवाहप्रकरणम् ६ । नच 'क्षीणेद्वयमाराः पापास्तैः संयुतः सौम्यः' इति वराहेणोक्तमिति वाच्यम्। तदुपादानाभावादेव । किंच पापग्रहत्वानभिधानाच्छुभग्रहत्वमेवावसीयते । नच 'गुरुबुधशुक्राः सौम्याः सौरिकुजार्का निसर्गतः पापाः। शशिजोऽशुभसंयुक्तः क्षीणोऽपि निशाकरः पापः ॥' इति कल्याणवर्मवाक्ये शुभग्रहमध्ये गणनाभावात्क्रूरत्वमिति वाच्यम् । पापग्रहमध्येऽपि गणना नास्तीति शुभग्रहत्वस्यापि सुवचत्वात् । उभयभ्रष्टत्वेन वा नरसिंहवजात्यंतरस्यापि वक्तुं शक्यत्वादिति चेत् । सत्यम् । 'सूर्यभौमशनिराहुकेतवः पापसंज्ञखचराः क्षयिचंद्रः । पूर्णचंद्रगुरुशुक्रसोमजाः सर्वकर्मसु हि सौम्यखेचराः ॥' इति वसिष्ठेन कंठतः क्रूरत्वाभिधानादस्ति क्रूरत्वम् । स्वरोदयेऽपि-'बुधशुक्रेन्दुजीवाश्च सदा सौम्यग्रहा मताः । शन्यर्कराहुमाहेयाः केतुः क्रूरग्रहा मताः॥' इति। न तृतीयः । ननु-स्वयमशक्तः कथं परान्साधयिष्यति' इति न्यायात्सदा चाक्षुषदर्शनाभावमितस्य राहोः केतोर्वा फलदातृत्वासामर्थ्यादिति चेन्न । अमावास्यायां प्रतिपदि वोत्पन्नस्य लग्नादिदुष्टस्थानस्थितचंद्रस्यारिष्टत्वमशुभफलजनकत्वं भवन्मते निरर्थकमापद्येत । ननु-'षष्टेऽष्टमे च चंद्रः सद्यो मरणाय पापसंदृष्टः । अष्टाभिः शुभदृष्टो मित्रैर्वस्तदर्धेन ॥' इति वराहोक्तभविष्यतीति चेत् । इहापि-'स्वच्छंदत्वं कदशनरतिवल्लभत्वं विशील्यं व्याधिः सुश्रीमतिरथ सुखं गर्भपातप्रवृत्तिः । द्यूतासक्तिर्भवति रविजे वैभवं वक्रयोगं स्वर्भानौ वाप्यथ शिखिनि वा लग्नभावादिसंख्ये ॥' इति वसिष्ठपये शनिवद्राहुकेत्वोः शुभाशुभफलदातृत्ववचनं किं वायसैक्षितम् ? सारावल्यां च-'राहुश्चतुष्टयस्थो निधनाय निरीक्षितो भवति पापैः । वर्वदंति दशभिः षोडशभिः केचिदाचार्याः ॥ अजवृषकर्कटलग्ने रक्षति राहुः समस्तपीडाभ्यः । पृथ्वीपतिः प्रसन्नः कृतापराधं यथा पुरुषम् ॥' इति राहोरशुभशुभफलाभिधानमस्ति । ननु वराहेण राहोः फलं कुत्रापि नोक्तमिति चेन्न । 'सोपप्लवे शशांके सरे लग्नगे कुजेऽष्टमगे। मात्रा साधं म्रियते चंद्रवदर्के स शस्त्रेण ॥' इति वराहपद्येऽपि राहुकेत्वोरन्यतराभिधानमस्ति । तथा हि-किमिदं चंद्रग्रहणं राहुसाहित्यकृतमुत केतुसाहित्यकृतमिति ? तत्र ग्रहणीयचंद्रे लग्नगे सरे इत्यत्र क्रूरस'हित्यमभिहितम् । फरास्तु सूर्यभौमशनय एव विवक्षिताः । इति चेत्सूर्यस्य तावद्योगाभावश्चंद्रग्रहणे हि सप्तमराशिस्थत्वात् । भौमस्यापि योगः कुजेऽष्टमग इत्युक्तेर्नास्ति । पारिशेष्याच्छनेरेव योगो वाच्यः । तत्र स्पष्टत्वार्थ शनिग्रहणमेव कस्मानाकारि ? अतः सामान्यवाचिनः क्रूरशब्दस्य प्रयोगादाहुकेत्वोरन्यतरयोगोऽपि विवक्षितोऽपरस्य सप्तमराशिस्थत्वात् । योगोऽपि एकराशिस्थत्वे स्यानतु भिन्नराशिस्थत्वे इति । एवं च ग्रहणसंबंधिलग्नस्थसूर्यारिष्टेऽपि राहुकेत्वोरन्यतरयोगो व्याख्येयः । अत एव राहुस्तमोऽगुरसुरश्च 'शिखी इति केतुः' इति पर्यायाभिधानं कृतम् । विवाहपटलेऽपि-'मरणं लत्ता राहोः कार्यविनाशं भृगोर्वदति' इति कंठतो राहुलत्ताप्युक्ता । तस्माद्वराहमतेऽपि राहुकेतुयोगो विवक्षित एव । एवं सति जातके यथा राहोः शुभाशुभ