________________
२६८
मुहूर्तचिंतामणिः । [कर्तरीदोषः अथ कर्तरीदोषमनुष्टुभाह
लनात्पापावृज्वनृजू व्ययार्थस्थौ यदा तदा ।
कर्तरी नाम सा ज्ञेया मृत्युदारिद्यशोकदा ॥ ४२ ॥ लग्नादिति ॥ यदा पापग्रहौ लग्नाद्वययार्थस्थावृज्वनृजू द्वादशस्थः पापग्रहो मार्गी द्वितीयस्थः पापग्रहो वक्री स्यात्तदा कर्तरीनामदोषः । कुंतति स्त्रीपुंसयोः प्राणांइछेदयतीति 'कृती छेदने' इति धात्वर्थानुसारादन्वर्था संमुखकर्तरीयं मृत्युदारिद्यशोकदा भवेत् । यदाह नारदः-'लग्नाभिमुखयोः पापग्रहयोर्ऋजुवक्रयोः । सा कर्तरीति विज्ञेया दंपत्योर्गलकर्तरी ॥ कर्तरीदोषसंयुक्तं यल्लग्नं तत्परित्यजेत् । अपि सौम्यग्रहैर्युक्तं गुणैः सर्वैः समन्वितम् ॥' इति । गर्गोऽपि-व्यये मार्गगतिः क्रूरो वक्री करो धने यदि । तौ च लग्नांशतुल्यौ च तदा घोराख्यकर्तरी ।' यदा तु द्वितीये मार्गी द्वादशे च वक्री अथवा द्वावपि करौ व्ययार्थस्थौ संतौ शीघ्रिणौ वक्रिणौ वा स्यातां तदा कर्तरी नास्त्येव । यदाह वसिष्ठः-'लग्नस्य पृष्ठाग्रगयोरसाध्वोः सा कर्तरी स्याहजुवक्रगत्योः । तावेव शीघ्रौ यदि वक्रचारौ न कर्तरी चेति पितामहोक्तिः ॥' इति । इयं च कर्तरी चंद्रस्यापि द्रष्टव्या। यदाह कश्यपः-'चंद्रस्य कर्तरी तद्वच्छुभदृष्टा न दोषदा' इति । परंतु लग्नस्य चंद्रस्य वा क्रूरग्रहमध्यगतत्वदोषोऽस्त्येव कर्तरीतोऽल्पफल: कन्यानाशकरत्वात् । यदाह वसिष्ठः-'क्रूरग्रहमध्यगते लग्ने चंद्रेऽथवा करग्रहणम् । ते यमसदनाभिमुखं गमनं चेच्छंति कन्यायाः ॥' इति । कर्तरीदोषे त्वन्यदप्यपवादातरम्-'पापो कर्तरिकारको' (६।८६) इत्यादिना स्वयं वक्ष्यति । अत्र लग्नादित्युपलक्षणात्सर्वेषामपि भावानां कर्तरीदोषो ध्येयः । 'यो यो भावः स्वामिदृष्टो युतो वा' इत्यादिना तुल्यन्यायत्वात् । तत्र लग्नकर्तरी महादोषकरी लग्नभंगाधायकत्वात्तस्या अन्यत्र तादृशदोषाभाव इति तत्त्वम् । अत्र केचित्-द्वादशे यः कश्चित्पापग्रहो भवतु मार्गी द्वितीयस्थाने यदि राहुः केतुर्वा स्यात्तदा कर्तर्येव नास्तीत्याहुः, ते प्रष्टव्याः-किं राहुकेत्वोर्ग्रहत्वाभावात्क्रूरग्रहत्वाभावाद्वा दृश्यग्रहत्वाभावाद्वा कर्तरी नास्ति ? नाद्यः । राहो. बृहत्वं श्रुतिस्मृतिप्रामाण्यसिद्धम् । तथा हि-'स्वर्भानुर्ह वा आसुरिः सूर्य तमसा विव्याध' इति माध्यंदिनी श्रुतिः।कश्यपश्च-'छिन्नोऽपि विष्णुचक्रेण सुधामयशिरास्तमः । केशवस्य वरेणासौतथापि ग्रहतां गतः॥' इति । नारदोऽपि-'अमृतास्वादनाबाहुः शिरश्छिन्नोऽपि सोऽमृतः। विष्णुना तेन चक्रेण तथापि ग्रहतां गतः ॥' इति । यद्यपि-'अदृश्यरूपाः कालस्य मूर्तयो भगणाश्रिताः । शीघ्रमंदोच्चपाताख्या ग्रहाणांगतिहेतवः॥' इति सूर्यसिद्धांतेपातानामदृश्यतोक्ता तथापि चंद्रपातस्य हि ग्रहत्वं वाचनिकमेव । 'स्वध्रुवे कुमुदिनीपतिपातो राहमाहुरिह केऽपि तमेव इति भास्कराचार्योक्तेश्च । अत एव राहोनर्ऋत्यदिक्स्वामित्वं दानं च संहिताकर्तृभिरुक्तं, राहोरधः शरीरभागः केतुसंज्ञ इति पुराणप्रसिद्धम् । न द्वितीयः । ननु केन वचनेन राहुकेत्वोः क्रूरत्वमुच्यते?