________________
२६७
संधिसंधिदोषः] विवाहप्रकरणम् ६ । घटिका तिथिगंडांतं नाम । यथा पंचमीषष्ट्योर्दशम्येकादश्योः पंचदशीप्रतिपदोर्वा तिथ्योरंतरालवर्तिघटीद्वयं तिथिगंडांतमशुभमित्यर्थः । यदाह नारदः'पूर्णानंदाख्ययोस्तिथ्योः संधिर्नाडीद्वयं सदा । गंडांतं मृत्युदं जन्मयात्रोद्वाहव्रतादिषु ॥' इति । यत्तु कश्यपेनोक्तम्-‘पूर्णानंदाख्ययोस्तिथ्योः संधिर्नाडीचतुष्टयम् । उद्वाहजन्मयानेषु गंडांतं निधनप्रदम् ॥' इति, तद्दोषतारतम्यसूचनार्थम् । एवं गंडांतसंज्ञः संधिरुक्तः । तत्र तिथिलग्नगंडांतपरिहारः शाकल्यसंहितायाम्-'तथैव तिथिगंडांतं नास्तींदी बलशालिनि । तथैव लग्नगंडांतं नास्ति जीवे बलान्विते ॥' इति । अथात्र प्रसंगादन्येषामपि संधिरुच्यतेऽस्माभिः । यदाह गुरुः-'घटिकाद्वयमृक्षांते मासांते तु दिनत्रयम् । वर्षांते वर्जयेत्पक्षं ग्रहणादिनसप्तकम् ॥' इति । तिथ्यादिसंधिमप्याह वसिष्ठः-'पक्षोऽब्दसंधिस्त्रिदिनं च माससंधिस्त्रिनाड्यः खलु संध्ययोश्च । नाड्यश्चतस्रस्तिथिऋक्षयोगसंधिस्तदध करणस्य संधिः ॥' वर्षेषु विशेषमाह स एव-'सौराब्दांते त्यजेत्पक्षं चांद्रे तु नवभं त्यजेत् । सावनांतेऽष्टभं त्याज्यं नाक्षत्रे पौष्णभाध्यहम् ॥' इति । अत्रापि विशेषमाह स एव–'अब्दाः स्युस्त्रिविधा जीवसौरचांद्रावयाः सदा । तेषामादौ तथा चांते त्रिदिनं वर्जयेच्छुभे॥' इति । अयं च सर्वकार्यसाधारणो निषेधः । अन्यथा मीनादित्ये विवाहप्रसंगाभावादेव वर्षातनिषेधस्य वैयर्थ्यापातात् । गुरु:-क्षांते पुत्रनाशः स्यान्मासांते तु धनक्षयः । वर्षांते वर्गनाशः स्याद्रहणात्सर्वनाशनम् ॥' इति । आवश्यकत्वे तु-'नक्षत्रयोगतिथिसंधिषु नाडिकैका तिथ्य(१५)ऽष्ट(८)विंशति(२०)पलैः सहितोभयत्र । कर्कालिमीनतनुसंधिषु दिक्पलानि त्याज्यानि शेषविवरेषु च पंच पंच ॥' इति वासनासिद्धं केशवार्कवाक्यमनुसतव्यम् । वासना च सिद्धांतशिरोमणावभिहिता-'शशितनुविकलाभ्यश्चंद्रभुक्त्येंदुभान्वोगतिविवरकलाभिर्भूय एताभिरेव । पृथगथ गतियुत्या नाडिकाः संधिरासां भतिथिकरणयोगानां फलं तत्र मिश्रम् ॥' इति । संधिफलमप्याह केशवार्कः'संधौ पुरंध्री शुचमेति वंध्या मृतप्रजा वा यदि संधिसंधिः। वदंति वात्स्या ऋतुना विमूढां निशीथमध्यंदिनसंधिषूढाम् ॥' इति । अर्धरात्रमध्यंदिनसंधिः 'अर्धे निशाह्नोर्घटीत्र्यंशम्' (१।३२)इत्याद्यप्रकरणेऽभिहितः। संघिसंधिस्तु केशवार्केणोक्तः-'रवेर्भवेदेकगृहाधिकस्य यदंशवृंदं खलु सायनस्य । तदत्र राशिद्वयभागतष्टं स्पष्टं वसंतादृतवो भवंति ॥ तत्संधयोऽङ्गांगघटीसमाः स्युसिंगुणाश्चेद्विषुवायनीयाः । स संधिसंधिः खलु यत्र शेषं शून्यं भवेदेष विशेषपुण्यः ॥' इति । मीनसंक्रांतिमारभ्य वसंतातुगणनेति पक्षमंगीकृत्यैकगृहाधिकस्येत्युक्तम् । ग्रंथकृदप्येतत् 'विषुवायनेषु'(६।७७)इति पद्येन संक्रांतिदोषे वक्ष्यतीत्यलमतिप्रसंगेन । गंडांतदोषपरिहारमाह वसिष्ठः-'गंडांतदोषमखिलं मुहूर्तोऽभिजिदाह्वयः । हति यद्वन्मृगव्याधः पक्षिसंघमिवाखिलम् ॥' तदेतदोषापवादाख्यस्य प्रकरणस्य नियामकत्वाद्विवाहविषयं न जातकादौ ॥ ४१ ॥