________________
२६६
मुहूर्ताचतामणिः। [लग्न-तिथिगंडांतदोषौ ज्येष्ठेति । गंडांतं नाम संधिविशेषः, स चानेकविधः नक्षत्रसंधिस्तिथिर्सधिर्लग्नसंधिश्च तथा योगसंधिः करणसंधिर्वर्षसंधिरयनसंधिर्ऋतुसंधिर्माससंधिः पक्षसंधिर्दिनसंधी रात्रिसंधिर्मध्याह्नसंधिः प्रातःसंधिः सायंसंधिनिशीथसंधिश्च । तत्र तिथिनक्षत्रलग्नविशेषाणां यः संधिनियतकालः स गंडांतसंज्ञः । अन्येषां तु संधिनियतकालः संधिशब्दवाच्य एव । तत्रादौ नक्षत्रगंडांतमुच्यतेज्येष्ठा प्रसिद्धा, पौष्णभं रेवती, सार्पभमाश्लेषा, एषामंते घटिकाद्वयं, तथा मूलाश्विन्यौ प्रसिद्धे, पित्र्यं पितरो देवतास्येति पित्र्यं मघा, 'वायवृतुपित्रुषसो यत्' इति यत् । एषामादौ घटिकाद्वयं च गंडांतं नाम । यथा रेवत्यश्विन्योराश्लेषामघयोज्येष्ठामूलयोरंतरालवर्तिघटीचतुष्टयं नक्षत्रगंडांतमशुभदमित्युत्तराधेनान्वयः। तदुक्तं रत्नमालायाम्-'पौष्णाश्विन्योः सार्पपित्र्यसंयोश्च यञ्च ज्येष्ठामूलयोरंतरालम् । तद्वंडांतं स्याञ्चतुर्नाडिकं हि यात्राजन्मोद्वाहकालेष्वनिष्टम् ॥' इति । यत्त वसिष्ठेनोक्तम्-'यदंतरालं पितृसार्पयोश्च मूलेंद्रयोराश्विनपौष्णयोश्च । भसंधिगंडांतमिति त्रयं तद्यामप्रमाणं शुभकर्महंत ॥' इति । यामः प्रहरो नक्षत्रभोगस्येति शेषः । नारदोऽपि-'सार्पेन्द्रपौष्णधिव्ण्यांते षोडशांशा भसंधयः। तदनभेष्वाद्यजाताः पापा गंडांतसंज्ञकाः ॥ उग्रं भसंधित्रितयं गंडांतत्रितयं महत् । मृत्युदं जन्मयानादिविवाहस्थापनादिषु ॥' षोडशांशो नक्षत्रभोगस्यार्धप्रहर इति यावत् । आद्यजाताः षोडशांशाः तदेतद्दोषमहत्त्वाल्पत्वसूचनार्थम् । तथा हि-चतुर्घटिके नक्षत्रगंडांते महान् दोषः। तदधिके त्वष्टघटिकात्मके मध्यमदोषः। ततोऽप्यधिके चरणावधिके त्वल्पो दोषः। अत एवोक्तं सूर्यसिद्धांते-'साईंद्रपौष्णधिष्ण्यानामत्याः पादा भसंधयः । तदग्रमेषु सार्धाशो गंडांतं नाम कीर्त्यते ॥ व्यतीपातत्रयं घोरं गंडांतत्रितयं तथा । एतद्भसंधित्रितयं सर्वकर्मसु वर्जयेत् ॥' इति । अर्धाशश्चरणार्ध प्रहर इत्यर्थः । दीपिकायां च'आये मघाचतुर्भागे मूलपादाद्य एव च । रेवत्यंते चतुर्भागे विवाहः प्राणनाशकः ॥' इति । अथ लग्नगंडांतमुच्यते-कर्केति । कर्कः प्रसिद्धः, अलिवृश्चिकः, अंडजो मीनः, 'मीनो वैसारिणोऽण्डजः' इत्यभिधानात् । एषां भानां लग्नानामंततः सप्तम्यंतात्तसिः। अंतेऽर्धघटिका, तथा सिंहमेषौ प्रसिद्धौ, अश्वो धनुः; एषां लग्नानामादिभूतार्धघटिका गंडांतं नाम । तथा कर्कसिंहयोवृश्चिकधनुषोर्मीनमेषयोर्वा लग्नयोरंतरवर्तिन्येका घटिका लग्नगंडांतमशुभमित्यर्थः । यदाह कश्यपः-'सिंहकर्कटयोश्चापकीटयोर्मीनमेषयोः । गंडांतमंतरालं तन्नाडिका निधनप्रदा ॥' इति । यत्त नारदेनोक्तम्-'कुलीरसिंहयोः कीटचापयोर्मीनमेषयोः। गंडांतमंतरालं स्थाटिकाध मृतिप्रदम् ॥' इति । वसिष्ठेनापि—'लग्नांतरालं घटिकार्धमेतत्कुलीरहोरलिचापयोश्च । मीनाजयोः सर्वगुणान्निहंति लोभो यथा सर्वगुणान्नरस्य ॥' इति, तद्दोषाधिक्यसूचनार्थम् । अथ तिथिगंडांतमुच्यते-पूर्णात इति । पूर्णाः पंचमीदशमीपंचदश्यस्तासामंते घटिकैका, तथा नंदा प्रतिपत्षष्ठयेकादश्यस्तासामादिभूतैका