________________
गंडांतदोषः] विवाहप्रकरणम् ६।
२६५ ष्ठेन-'लग्नं तदधं च ततस्विभागो नवांशकश्च द्विदशांशकश्च । त्रिंशांशकश्चेति हि वर्गषवं शुभं शुभव्योमचराधिपत्यम् ॥ यः पापषवर्गभवो हि दोषः पंचांगसौम्यग्रहलग्नजातम् । गुणौधर्मभोधिममोघबाणः शुष्यत्यशेषं खलु राघवस्य ॥' इति । तस्मात्सौम्यपापग्रहषड्वर्गसांकर्ये सति सौम्यषड्वर्गस्त्रिभ्योऽधिकश्वेच्छुभः, त्रिभ्यो हीनश्चेदशुभ इत्यर्थः इति दैवज्ञसंप्रदायः ॥ ४० ॥
[अथेद्रवज्रया पूर्वमध्यापरभागयोगीनि भान्याहपौष्णेशशाकाद्रससूर्यनंदापूर्वार्धमध्यापरभागयुग्मम् । भर्ता प्रियः प्राग्युजिभे स्त्रियाः स्यान्मध्ये द्वयोःप्रेम परे प्रिया स्त्री।
पौष्णेति ॥ पौष्णाद्रेवत्याः षदर्भ भानि जात्यभिप्रायमेकवचनं पूर्वार्धयोगीनि ज्ञेयानि । आदिद्वादश मध्यभागयोगीनि ज्ञेयानि । ज्येष्ठादीनि नव अपरभागयोगीनि ज्ञेयानि । फलमाह-भर्ता प्रिय इति । अयं भावःराज्ञामंतःपुरस्थस्त्रीसमागमे गणिकादिसमागमे वा पूर्वार्धयुजि नक्षत्रे सति स्त्रीणां भर्ता प्रियः । मध्यभागयुजिभे परस्परं प्रीतिर्भवेत् । परे परभागयुजि भे स्त्री नृणां प्रिया भवेदिति । एवं वधूवरयोर्नवसमागमेऽपि ज्ञेयमिति रत्नमालाटीकायां महादेवेनोक्तम् ॥ सेवकादिभस्य स्वाम्यादिभात्पूर्वत्वे विशेष वसंततिलकयाहसेव्याधमर्णयुवतीनगरादिभं चे
त्पूर्व हि भृत्यधनिभर्तृपुरादिसद्भात् । सेवाविनाशधननाशनभर्तृनाश
ग्रामादिसौख्यहदिदं क्रमशः प्रदिष्टम् ॥ सेव्याधमणेति ॥ स्पष्टार्थम् । तथा चोक्तं डामरसंग्रहे-'भामिनीजन्मनक्षत्राद्वितीयं पतिजन्मभम् । न शुभं भर्तृनाशाय कथितं ब्रह्मयामले ॥ प्रथमं सेव्यजन्मक्षं द्वितीयं सेवकस्य च । न सेवा सुस्थिरा तस्य जलबुहुदवप्रिये ॥' इति । 'ऋणग्राहकजन्मक्षं प्रथमं ऋणदस्य भात् । द्वितीयं ऋणसंबंधो न कर्तव्यः कदाचन ॥ कदाचिद्रव्यलोभेन क्रियते नैव लभ्यते । पार्वतीप्राणनाथेन प्रोक्तं डामरसंग्रहे ॥ ग्रामभं प्रथमं यस्य द्वितीयं जन्मभं भवेत् । न ग्राह्यः सर्वथा ग्रामो यतः प्राप्यार्थनाशदः॥ इति ॥] अथ गंडांतदोषं शार्दूलविक्रीडितेनाहज्येष्ठापौष्णभसार्पभांत्यघटिकायुग्मं च मूलाश्विनी
पित्र्यादौ घटिकाद्वयं निगदितं तद्भस्य गंडांतकम् । कर्काल्यंडजभांततोऽर्धघटिका सिंहाश्वमेषादिगा
पूर्णांते घटिकात्मकं त्वशुभदं नंदातिथेश्चादिगम्॥४१॥ १ [ ] एतच्चिह्नांतर्गतं सटीकं श्लोकद्वयं लिखितपुस्तकेषु नोपलभ्यते, पूर्वापरसंबंधरहितत्वात् श्लोकांकरहितत्वाच्च प्रक्षिप्तमिवाभाति ।
२३ मु० चि०