________________
२६४
मुहूर्तचिंतामणिः । [द्वादशांशेशविचारः शुक्रज्ञेति ॥ समराशिमध्ये क्रमेण प्रथमतः पंचानामंशानां शुक्रः स्वामी, ततः शैलानां सप्तानां ज्ञो बुधः, ततोऽष्टानां जीवो गुरुः, ततः पंचानां शनिः, ततो विशिखा बाणाः पंच तेषां भूतनयो भौमः । शुक्रज्ञेत्यादिसमाहारद्वंद्वः। विषमभे तु अस्मात्समराशेर्विपरीतं ज्ञेयम् । यथा-प्रथमतः पंचानां भौमः, ततः पंचानां शनिः, ततोऽष्टानां गुरुः, ततः सप्तानां बुधः, ततः पंचानां शुक्र इत्यर्थः । अयमेव त्रिंशांशकसंज्ञ इति । यदाह नारद:-'कुजार्कीज्यज्ञशुक्राणां बाणेष्वष्टाद्रिमार्गणाः। भागाः स्युर्विषमे ते तु समराशौ विपर्ययात् ॥' इति । अत्र केचिदाहुः-तुर्विशेषे, तेशब्दो हि प्रथमाबहुवचनांतः, ततः प्रथमांतसामानाधिकरण्यानुरोधादानंतर्याच्च बाणादिका भागा एव परामृश्यंते न स्वामिनः, अनानंतर्याद्भिन्नविभक्तिकत्वाच्च । तथा सत्ययमर्थः-समराशौ तु विशेषः ते बाणादिका भागा विपर्ययावत्यस्तस्थिताः यथास्थितानामेव कुजादीनां ज्ञेयाः। यथा-प्रथमतः पंचानामंशानां स्वामी भौमः,ततः सप्तानां शनिः, ततोऽष्टानां गुरुः, ततः पंचानां बुधः, ततः पंचानां शुक्र इति। मूलेऽप्येवमेव वक्तुमुचितं तत्कस्य हेतोयोरपि वैपरीत्यम् ? उच्यते-अव्ययानामनेकार्थत्वाखेतोः समुच्चयार्थत्वांगीकरणात्कुजादयोऽपि समुच्चीयते। तथा सति बाणादिका भागाः कुजादिकाः स्वामिनोऽपि विपर्यस्ता ज्ञेया इत्यर्थः । भत्रार्थे प्रमाणं श्रुतकीर्तिवचनम् । यथा-'पंचाथ पंच चाष्टौ सप्त च पंचैव चोजभवनेषु । धरणिसुतमंदसुरगुरुबुधशुक्राणां क्रमेणांशाः ॥ पंचैव सप्त चाष्टौ पंचपंचाथ युग्मभवनेषु । भागा भार्गवशशिसुतसुरेज्यशनिभूमिपुत्राणाम् ॥' इति । अत एव वराहेणापि-'युजि तु ते विपर्यस्ता' इत्यत्र तुशब्दः प्रयुक्तः । यदि नायमर्थोऽभिप्रेतः स्यात्तदा न केऽपि तुशब्दं प्रयुंजीरनिति सर्व निरवद्यम् । द्रेष्काणका इति । अत्र प्रमाणदशांशाः द्वादशसु राशिषु प्रथमो द्रेष्काणः, प्रथमस्य स्वराश्यधीशस्य द्वितीयो द्रेष्काणः, स्वराशितः पंचमराशीश्वरस्य तृतीयः स्वराशितो नवमराशीश्वरस्य । यथा-वृषे प्रथमो द्रेष्काणः, वृषाधीशशुक्रस्य द्वितीयः, कन्याधीशबुधस्य तृतीयो मकराधीशशनेरित्यर्थः। 'स्युर्देष्काणा लग्नपंचनवराशीश्वराः क्रमात्' इति नारदोक्तेः ॥ ३९ ॥ अथ द्वादशांशं षड्वर्गोपसंहारं सफलं वसंततिलकयाहस्थाद्वादशांश इह राशित एव गेहं
होराथ कनवमांशकसूर्यभागाः । त्रिंशांशकश्च षडिमे कथितास्तु वर्गाः
सौम्यैः शुभं भवति चाशुभमेव पापैः ॥४०॥ स्यादिति ॥ इह षड्वर्गे द्वादशांशः सार्धमंशद्वयं तत्स्वराशित एवेष्टांशांत गणितं सद्यस्तद्राशिस्वामी स द्वादशांशेश्वरः 'भारभ्य लग्नराशेस्तु द्वादशांशेश्वरः क्रमात्' इति नारदोक्तेः। अन्यच्चरणत्रयं स्पष्टतरम् । तदुक्तं वसि