________________
त्रिंशांशद्रेष्काणाः] विवाहप्रकरणम् ६ ।
२६३ लक्षणस्य वक्तव्यत्वात्पृथग्दोषनामानि नोक्तानि । तत्र पंचांगदोषदुर्मुहूर्तवारदोषग्रहणोत्पातनक्षत्रदोषा आये शुभाशुभप्रकरणे निरूपिता एवेति पुनर्नोच्यते । दुर्मुहूर्तवारदोषयोः पुनरभिधाने प्रयोजनं तत्रैव वयं वक्ष्यामः । अतोऽन्यान्दोषान्सलक्षणान्विवक्षुरादौ व्याख्यानिरपेक्षत्वेन सुगमं षड्वर्गदोषमाह कुजशुक्रेत्यादिचतुर्भिः पद्यैः । तत्र ग्रहनवांशस्वामिन आदिमेन मंजुभाषिणीवृत्तेनाहकुजशुक्रसौम्यशशिसूर्यचंद्रजाः कविभौमजीवशनिसौरयो गुरुः । इह राशिपाः क्रियमृगास्यतौलिकेंदुभतो नवांशविधिरुच्यते बुधैः।।
कुजेति ॥ अत्र लग्नादीनां लक्षणं नारदेनोक्तम्-'त्रिंशद्भागात्मकं लग्नं होरा तस्यार्धमुच्यते । लग्नविभागो द्रेष्काणो नवमांशो नवांशकः । द्वादशांशो द्वादशांशस्त्रिंशांशस्त्रिंशदंशकः। षड्वर्गाः कथिता ह्येते तेषामीशा इमे स्मृताः' इति । तत्रैते भौमशुक्रबुधचंद्रसूर्यबुधशुक्रभौमगुरुशनिशनिगुरवः क्रमेणेह षड्वर्गे राशिपा मेषादिराशीनां स्वामिनः । क्रियेति । क्रियो मेषः, मृगास्य मकरः, तौलिकं तुला,इंदुभं कर्कः एभ्यो राशिभ्यो द्वादशस्वपि राशिषु नवांशविधिर्बुधैरुच्यते । मेषे मेषादेव, वृषे मकरादेव, मिथुने तुलातः,कर्के कर्कादेव, एवं सिंहेऽपि मेषादेव; एवं कन्यादिष्वपि राशिषु मकरादित एव । एवमेव धनुरादिष्वपीत्यर्थः । यदाह नारदः-सिंहस्याधिपतिर्भानुश्चंद्रः कर्कटकेश्वरः। मेषवृश्चिकयोभौंमः कन्यामिथुनयोर्बुधः ॥ धनुर्मीनयोदेवेज्यः शुक्रो वृषतुलेश्वरः। शनिर्मकरकुंभेश इत्येते राशिनायकाः ॥' इति । नवमांशा मेषसिंहचापे मेषादयः क्रमात् । क्रमागोमृगकन्यासु ज्ञेयाः स्युर्मकरादयः ॥ तुलामिथुनकुंभेषु स्युः क्रमेण तुलादयः। अलिकर्कटमीनेषु क्रमात्स्युः कर्कटादयः ॥' इति ॥ ३७ ॥ .. अथ होराविधिं गायत्रीछंदोभेदेन शशिवदनावृत्तेनाह
समगृहमध्ये शशिरविहोरा ।
विषमभमध्ये रविशशिनोः सा ॥ ३८ ॥ समगृहेति ॥ पंचदशभागात्मकैका होरा समराशिमध्ये प्रथमा चंद्रस्यापरा सूर्यस्य । विषमराशिमध्ये प्रथमा रवेरपरा चंद्रस्येत्यर्थः । 'होराद्वोरोजराशौ समभे चंद्रसूर्ययोः' इति नारदोक्तेः ॥ ३८ ॥ अथ त्रिंशांशद्रेष्काणान्वसंततिलकयाहशुक्रज्ञजीवशनिभूतनयस्य बाण
शैलाष्टपंचविशिखाः समराशिमध्ये । त्रिंशांशको विषमभे विपरीतमसा
द्रेष्काणकाः प्रथमपंचनवाधिपानाम् ॥ ३९॥