________________
मुहूर्तचिंतामणिः । [ विवाहे सर्वसंमता २१ दोषाः
सुतार्थसंपत्त्यै । यद्युभयोरेकक्षं भवति तदा चांशको भिन्नः ॥' इति । एतच्च संकोचविषयं वेदितव्यम् । तथा च जगन्मोहने- 'एक चकराशौ च विवाहस्त्वशुभः स्मृतः । संकोचे तु तदा कार्यो भिन्नः पादो यदा तयोः ॥ ' इति । अत्रापि विशेषो ज्योतिर्निबंधे विधिरने – 'रोहिण्या द्रमिवेंद्रानी तिष्यश्रवणपौष्णभम् । उत्तरा प्रोष्ठपाश्चैव नक्षत्रैक्येऽपि शोभनाः ॥' इति । इंद्रानी = विशाखा । तदेतत्स्पष्टमुक्तं तत्रैव कालनिर्णये- 'विशाखिकार्द्रश्रवणप्रजेशतिष्यांत्यतत्पूर्वमघाः प्रशस्ताः । स्त्रीपुंसतारैक्यपरिग्रहे तु शेषा विवर्ज्या इति संगिरं ॥' इति । शेषास्तारा इत्यर्थः । अत्र द्वयोरन्यतरस्य वा जन्मराशिनक्षत्राद्यज्ञाने उपायमाह वसिष्ठः - 'अज्ञातजन्मनां नृणां नामभे परिकल्पना । तेनैव चिंतयेत्सर्वं राशिकूटादि जन्मवत् ॥ जन्मभं जन्मधिष्ण्येन नामधिष्ण्येन नामभम् । व्यत्ययेन यदा योज्यं दंपत्योर्निधनप्रदम् ॥' इति । 'कुर्यात् षोडशकर्माणि जन्मराशौ बलान्विते । सर्वाण्यन्यानि कर्माणि नामराशौ बलान्विते ॥' इति । बृहस्पतिरपि - 'व्यवहारराजसेवासंग्रामग्राम मैत्रेषु । ज्ञातेऽपि जन्मराशौ फलमुक्तं नामराशिवशात् ॥ ' इति । नाम्नः सकाशाज्जन्मनक्षत्रज्ञानं स्वरोदयाभिहितशत पदचक्रांतर्गत स्वीयनामादिवर्णवशाज्ज्ञेयमिति । यस्तु ऋकारादिवर्णो नास्ति ऋषभादिनामसु च दृश्यते तत्र यथासंप्रदायं व्यवस्था ॥ ३६ ॥
२६२
अथ विवाहे एवं मासशुद्धिं दंपत्योरानुकूल्यशुद्धिं चोक्त्वेदानीं सूक्ष्मं निर्दोषं दिनलग्नविचारं वक्ष्यति । तत्रैकविंशतिः सर्वसंमता दोषा नारदेन परिगणिताः - 'एकविंशतिदोषाणां नामरूपफलानि च । पितामहोक्तं संवीक्ष्य तानि वक्ष्ये समासतः । पंचांगशुद्धिरहितो दोषस्त्वाद्यः प्रकीर्तितः । उदयास्तशुद्धिहीनो द्वितीयः सूर्यसंक्रमः ॥ तृतीयः पापषड्वर्गो भृगुः षष्ठः कुजोऽष्टमः । गंडांतं कर्तरीरिः फषडष्ठेदुश्च संग्रहः । दंपत्योरष्टमं लक्षं राशिर्विषघटी तथा । दुर्मुहूर्तो वारदोषः खार्जूरिकसमांनिभम् ॥ ग्रहणोत्पातभं क्रूरविद्धर्क्ष क्रूरसंयुतम् । कुनवांशो महापातो वैधृतिश्चैकविंशतिः ॥' इति । अन्यैस्तु दश दोषा उक्ताः -' - 'वेधश्व लत्ता च तथा च पातः खार्जूरयोगो दशयोगचक्रम् | युतिश्च जामित्रमुपग्रहाश्च बाणाख्यवज्रो दश चैव दोषाः ॥' इति व्यवहारोच्चयेऽभिधानात् । दुर्मुहूर्तो 'रवावर्यमा - ' ( ६ । १२ ) इत्यादिः । वारदोषः कुलिकादिः । क्रूरसंयुतमित्यस्योपलक्षणत्वादकालवृष्टिनामकोऽपि दोषो गृह्यते । थदाह वसिष्ठः – पंचांगशुद्धिरहिताश्चोत्पाताऽकालवृष्टिजाः' इति । एषां दोषाणां कर्मविशेषे फलमाह वसिष्ठ एव - ' एकविंशन्महादोषास्त्वेते ब्रह्ममुखोदिताः । कदाचिन्नैव सीदंति गुणानां कोटिकोटिभिः ॥ तस्मादेतेषु दोषेषु कदाचिन्नाचरेच्छुभम् । विवाहे विधवा नारी मरणं व्रतबंधने ॥ ग्रामनाशः प्रतिष्ठायां सीमंते गर्भनाशनम् । नवान्नभोजने मृत्युः कृषौ तत्फलनाशनम् ॥ कर्तुर्नाशो गृहारंभे प्रवेशे पतिनाशनम् । यात्रायां कर्तृनाशः स्याद्युद्धयाने विशेषतः । लभ्यते सुमहत्पुण्यमेषु श्राद्धादिकर्मभिः' इति । ग्रंथकर्त्रा तु दोष