________________
राशिनक्षत्रैक्येऽपवादः]
विवाहप्रकरणम् ६ |
२६१
1
षकस्य, यवर्गो मृगस्य, शवर्गो मेषस्य । अत्र निजात्स्वस्मात् पंचमा वैरिणो येषां ते तथोक्ताः । गरुडसर्पयोः मार्जारमूषकयोः, सिंहमृगयोः श्वमेषयोः परस्परं महावैरमित्यर्थः । अत्र स्त्रीपुंसयोर्नक्षत्रद्वयं भक्ष्यभक्षकवर्गे चेत् भवेतदाशुभम् । यदा त्वेकवर्गे उदासीनवर्गे वा स्यात्तदा शुभमेव । एतच्च स्वामिसेवकयोरपि विचार्यम् । उक्तं च ज्योतिर्निबंधे - 'वर्गेशास्तार्क्ष्यमार्जारसिंहश्वव्यालमूषकाः । मृगश्च शशकस्तत्र स्ववर्गात्पंचमो रिपुः ॥' ॥ ३५ ॥
अथैवं कूटान्यभिधायेदानीं नक्षत्रराश्यैक्ये विशेषं शालिन्याहराश्यैक्ये चेद्भिन्नमृक्षं द्वयोः स्यान्नक्षत्रैक्ये राशियुग्मं तथैव । नाडीदोषो नो गणानां च दोषो नक्षत्रैक्ये पादभेदे शुभं स्यात् ३६
राश्यैक्ये इति ॥ द्वयोः स्त्रीपुंसयोरेकराशित्वे सति यदि भिन्नमृक्षं स्यात्तदा नाडीदोषो गणानां च राक्षसमनुष्यगणानां च दोषो नास्ति । यथा-एकस्मिन्नेव कुंभराशौ शततारकापूर्वाभाद्रपदापादत्रयं च इत्येवंरूपो नक्षत्रभेदः, तथैव नक्षत्रैक्ये राशियुग्मं राशिद्वयं चेत्स्यात्तदापि प्रागुक्तो दोषो न स्यात् । उपलक्षणत्वात्तारादोषोऽपि न भवेत् । यथा एकस्मिन्नेव नक्षत्रे पूर्वाभाद्रपदाख्ये पूर्वाभाद्रपदायाः प्रथमपादत्रयं कुंभे चतुर्थचरणश्च मीने इत्येवंरूपो राशिभेदः । यदाह नारदः - ' एकराशौ पृथग्धिष्ण्ये दंपत्योः पाणिपीडनम् । उत्तमं मध्यमं भिन्नराश्येकर्क्षगयोस्तयोः ॥ एक चैकराशौ च विवाहः प्राणहानिदः ॥ वसिष्ठः—‘दंपत्योर्जन्मभे चैक्ये राशौ च निधनं तयोः । एकस्य च तथोद्वाहे किंचिद्भेदेऽपि वानवा ॥' इति । किंचिद्भेदे नक्षत्रभेदे राशिभेदे च । गर्गः-'एकराशिं विना नाडीयोगमादौ विवर्जयेत् । न दोषस्त्वेकराशिस्थे भकूटेऽन्येषु मृत्युदः ॥' इति ॥ भृगुरपि - 'दंपत्योरेकराशिचेत् पृथगृक्षं यदा भवेत् । विशिष्टोक्तो विवाहः स्याद्गुणनाडीं न योजयेत् ॥' इति । अत एवाह केशवार्क: - 'अभिन्नराइयोर्यदि भिन्नमृक्षमभिन्नमृक्षं यदि भिन्नराइयोः । प्रीतिस्तदानीं निबिडा नृनार्योश्चेत्कृत्तिकारोहिणिवन्न नाडी ॥' इति । चतुर्थचरणस्यायमर्थः- चेद्यदि कृत्तिकारोहिणिवत्स्यात्तदापि नाडीदोषो न स्यात् । उपलक्षणत्वाद्गुणदोषोऽपि । यथा - कृत्तिकारोहिण्यो रेकनाडीत्वेऽपि गणदौष्ट्येऽपि तत्सूचिताशुभफलं नैव स्यात् । अत्रापि प्रथमतः तारापेक्षिता, द्वितीया स्त्रीतारेत्यपि विशेषो ध्येयः । यदाह गर्गः - ' एकराशौ पृथग्धिष्ण्ये पुंतारा प्रथमा भवेत् । अतीव शोभना प्रोक्ता स्त्रीतारा चेत्त्वशोभना ॥' इति । तदैवं कैमुतिकन्यायेन यत्र नाडीगणदोषाद्यभावो यथा रोहिणीमृगयोर्हस्तचित्रयोर्वा तत्र पाणिपीडनं शुभं स्यादिति किं वाच्यमित्यर्थः । अथैकराशिनक्षत्रत्वेऽपवादमाह-नक्षत्रैक्ये इति । स्त्रीपुंसयो राश्यैक्ये नक्षत्रैक्ये च यदि चरणभेदो यथा भरण्याः प्रथमपादे पुंसो जन्म, द्वितीयपादे स्त्रियास्तदापि शुभं कल्याणं स्यात् । तदुक्तं केशवार्केण - 'पराशरः प्राह नवांशभेदादेकर्क्षराइयोरपि सौमनस्यं ' इति । सौमनस्यं=प्रीतिः । वसिष्ठेनाऽपि - 'एकगृहसंभवानां भवति विवाहः