________________
तत्र तिथि-नक्षत्रादिशुद्धिः] यात्राप्रकरणम् ११ ।
३३३ ऽपि-'विपंचसप्तत्र्यायेषु यात्राभीष्टफलप्रदा' इति । जनुरित्यादिनक्षत्रोक्तिसमीपे वक्तव्यमप्यत्रोक्तं पादपूरणार्थम् ॥ ८ ॥ अथ तिथिनक्षत्रशुद्धी भुजंगप्रयातेनाहन षष्ठी न च द्वादशी नाष्टमी नो
सिताद्या तिथिः पूर्णिमाऽमा न रिक्ता । हयादित्यमित्रदुजीवांत्यहस्त
श्रवोवासवैरेव यात्रा प्रशस्ता ॥९॥ नेति ॥ सिताद्या तिथिः शुक्लपक्षप्रतिपत् , अर्थात् कृष्णपक्षप्रतिपदुत्तमा; अमा अमावास्या, अन्यास्तिथयो नामतःप्रसिद्धा ज्ञेयाः; आसु तिथिषु यात्रान प्रशस्तेति वाक्यार्थः । पदार्थस्त्वयम्-षष्ठी न यात्रायां प्रशस्तेत्यर्थः। एवं सर्वत्र, बहुनकारकरणं कवित्वे पदानां पुनरुक्त्या गौरवलाघवविचारो नास्तीति द्योत. यितुम् । 'न खरो न च भूयसा मृदुः' इतिवत् । यदाह नारद:-षध्यष्टमीद्वादशिकारिक्तामावर्जितासु च । यात्रा शुक्ल प्रतिपदि निधनायाऽधनाय वा ॥' इति । अर्थात्षष्ट्यादिनिषिद्धतिथिव्यतिरिक्तास्तिथयो यात्रायां प्रशस्ता इत्यर्थः । अत्र प्रत्येकं तिथिफलान्याह वसिष्ठः-'वलक्षपक्षे प्रतिपत्प्रयाणे भंगप्रदा वा निधनप्रदा वा । यशस्करी भूरिधनप्रदा च या पंचमी मृत्युकरी च षष्ठी ॥ सप्तमी विजयदा ह्यथाष्टमी शोकदुःखभयदामयप्रदा । सर्वदुःखशमनी यशस्करी लाभदा च दशमी निरंतरम् ॥ पशुप्रदा मानकरी सुगंधरतांबरानेकशुभप्रदा स्यात् । एकादशी चित्रमृगप्रभूतधान्याकरा द्युत्तमवस्तुदा स्यात् ॥ भूरिभूतिनाशिनी भूरिशर्महारिणी भूरिभीतिदायिनी द्वादशी प्रभंगदा । त्रयोदशी सुभोगदा विपक्षपक्षनाशिनी विनाशदाथ पूर्णिमा यशाक्षयं करोत्यमा ॥' वलक्षपक्षः शुक्लपक्षः । यस्यां प्रतिपदि सत्यपि उदये चंद्रस्यातिक्षीणत्वाझंगप्रदत्वं, यदा तु चंद्रोदयाभाव एव तदा निधनप्रदत्वं मरणदातृत्वं, अर्थात् कृष्णपक्षप्रतिपदुत्तमा; आहुश्च–'प्रतिपत्सु प्रयातानां सिद्धिरेव न संशयः' इति, तत्कृष्णप्रतिपद्विषयम् । हयेति । ननु तिथयः प्रोक्ताः, मध्ये वारान्विहाय नक्षत्रोक्तिर्न संगच्छते । किंच वसिष्ठेनोक्तत्वाद्वारा वक्तव्या एव; 'सुरेज्यदैत्येज्यशशींदुजानां वाराश्च वर्गाः शुभदाः प्रयाणे । आदित्यभूसूनुशनैश्चराणां वाराश्च वर्गा न शुभप्रदाः स्युः ॥' इति । फलान्यायाह राजमार्तड:-'सूर्यदिनेऽध्वनि नाशश्चंद्रे शक्तिक्षयोऽर्थनाशश्च । ज्वलनासक्पित्तरुजः कौजे बौधे सुहृत्प्राप्तिः । जैवे जयधनलब्धिः शुक्रे स्त्रीवस्त्रगंधधनलाभः । दैन्यवधबन्धरोगान्प्राप्नोति दिनेऽर्कपुत्रस्य ॥' इति । तस्माद्वारा वक्तव्या एवेति चेत् । उच्यते,-न वक्तव्या एव वारा इति वयं ब्रूमः । कुतः? नारदकश्यपावृषिभिरनुक्तत्वात् । किंच 'न मंदेंदुदिने प्राची न गच्छेद्दक्षिणां गुरौ । सितार्कयोन प्रतीची नोदीची ज्ञारयोरपि ॥' इति नारदवाक्यबोधि