________________
मुहूर्तचिंतामणिः । [ यात्रायां निषिद्धवाराः
समुद्यताssशाकथितानि भंक्त्वा फलानि वीर्यान्नयति स्वकाष्ठाम् ॥' इति । अन्यदपि योगांतरं तेनैवोक्तम् — 'परस्परं सौरिकुजौ रवींदू त्रिकोणगौ भार्गवलोहितौ वा । फलं यदुक्तं तदशेषमेव विनाश्य पश्चान्नयति स्वकाष्ठाम्' इति ॥ ७ ॥ अथैवं प्रश्नलग्नात्प्रष्टुः शुभाशुभं निर्णीय यात्राकालादि भुजंगप्रयातेनाहधनुषसिंहेषु यात्रा प्रशस्ता शनिज्ञोशनोराशिगे चैव मध्या ।
३३२
वौ कर्कमीनालिसंस्थेऽतिदीर्घा
जनुः सप्त पंच त्रिताराश्च नेष्टाः ॥ ८ ॥
धनुरिति ॥ रवौ धनुर्मेषसिंहस्थिते सति यात्रा प्रशस्ता शुफफलदा । शनिज्ञोशनोराशिगे मकरकुंभकन्यामिथुनवृषतु लागते रवौ यात्रा मध्या मध्यमफलदा, न शुभदा नाप्यशुभफलदेत्यर्थः । कर्कमीनालिसंस्थे रवावतिदीर्घा बहुकालसाध्या यात्रा, हीनफलेत्यर्थः । यदाह लल्लुः - 'यात्राजसिंहतुरगोपगते वरिष्ठा मध्या शनैश्चरबुधोशनसां गृहेषु । भानौ कुलीरवृषवृश्चिकगेऽतिदीर्घा शस्तस्तु देवलमतेऽध्वनि पृष्ठगोऽर्कः ॥' शस्त इति; देवलाचार्य मतेstar मार्गेऽर्कः सूर्यः पृष्ठगः शस्तः । पृष्ठगत्वं तु भ्रमणवशेन सूर्यो ह्यहोरात्रमध्ये उदयकालादारभ्य प्रहराष्टकेन प्रदक्षिणं प्राच्याद्यष्टौ दिशो भ्रमतीति । यदाह वसंतराजः—' दग्धा दिगैशी ज्वलिता दिगैंद्री प्रधूमिता चानलदिक् प्रभाते । इत्येवमेव प्रहराष्ट्रकेन भुंक्ते दिशोऽष्टौ सविता क्रमेण ॥ दग्धा दिगुक्ता दिननाथमुक्ता विवस्वदाप्ता भवति प्रदीप्ता । संधूमितायां सविता प्रयाता शेषा दिगंताः खलु पंच शांताः ॥' इति । एतेन भ्रमणप्रकारेण यस्यां दिशि यस्मिन् प्रहरे भ्रमणसंभवः सा दिक् सूर्यसंमुखेत्युच्यते । तत्पंचमी दि सूर्य पृष्ठगतेत्युच्यते इति पितृचरणा व्याचख्युः । वयं त्वेवं व्याकुर्मःशस्त इति द्वादशराशिचक्रभ्रमवशेन यस्यां दिश्यर्कः स्थितस्तां पृष्ठतः कृत्वा यायादित्यर्थः। यथा-लग्नस्थेऽर्के पश्चिमां दिशं गच्छेत्, चतुर्थस्थे सूर्ये दक्षिणां दिशं गच्छेत्, सप्तमे सूर्ये पूर्वा गच्छेत्, दशमस्थे सूर्ये उत्तरां दिशं गच्छेत्; यदाह देवलः – 'लग्नस्थे वरुणाशां हिबुकस्थे दक्षिणां रवौ यायात् । सप्तमगे पूर्वाशां मेषूरणसंस्थिते सौम्याम् ॥' इति । एवं विदिक्ष्वपि तुल्यन्यायत्वाज्ज्ञेयम् । यथा-द्वितीयस्थे तृतीयस्थे वा सूर्ये नैर्ऋतीं गच्छेत्, पंचमस्थे षष्ठस्थे वा सूर्ये आग्नेयीं गच्छेत्, अष्टमस्थे नवमस्थे वा सूर्ये ऐशानीं गच्छेत्, एकादशस्थे द्वादशस्थे वा सूर्ये वायव्यां गच्छेदिति । अथ तारानिषेध उच्यते - जनुरिति ॥ स्वजन्मनक्षत्राद्दिननक्षत्रं यत्संख्यं स्यात्तन्नवभक्तमवशिष्टाः प्रथमसप्तमपंचमतृतीयाख्यास्ताराश्चेत्स्युस्तदा नेष्टा निषिद्धाः । यदुक्तं रत्नमालायां श्रीपतिना - ' त्यक्त्वा त्रिपंचादिमसप्तताराः' इति । नारदो
--