________________
किंदिग्विषया यात्रेत्यत्र निर्णयः ] यात्राप्रकरणम् ११ ।
प्रश्नकर्तुर्नृपादेर्भगः शत्रुतः पराजयो नाशो वा स्यात् । अथ चंद्रे मृतिभमदनसंस्थेऽष्टमसप्तमसंस्थे लग्नगे च भास्करे सत्येवंविधे विशिष्टे योगे प्रष्टुभंग: स्यात् । तथा अपिशब्दो ऽव्ययानामनेकार्थत्वाद्विपर्ययार्थः । तथा हि-अपिविपर्यये वा, सति भास्करे मृतिभमदनसंस्थे चंद्रे लग्नगे च सति एवंविधे योगे प्रष्टुभंगः स्यात् । उक्तं च वराहेण - 'सचंद्रे रुधिरे लग्ने भंगः सूर्यात्मजेक्षिते । घूननैधनगे चंद्रे लग्नं याते दिवाकरे । विपर्यये वा यातस्य त्रासभंगवधागमाः ॥' इति । वा अथवा पापग्रहे चतुर्थाष्टमलग्नसप्तमस्थानानामन्यतमस्थे सति प्रष्टुभंगः स्यात् । उक्तं च वराहेण - 'निधनहिबुकहोरासप्तमर्क्षेषु पापा न शुभफलकराः स्युः पृच्छतां मानवानाम् । दशमभवनयुक्तेष्वेषु सौम्याः समस्ताः सदसदिदमशेषं यानकालेऽपि चिंत्यम् ॥' इति ॥ ५ ॥
३३१
अथ याता कस्यां दिशि गमिष्यतीति प्रश्ने निर्णयं भुजंगप्रयातेनाहत्रिकोणे कुजात्सौरिशुक्रज्ञजीवा
raise वा नो गमोsर्काच्छशी वा । बलीयांस्तु मध्ये तयोर्यो ग्रहः स्यात्
स्वकीयां दिशं प्रत्युतासौ नयेच्च ॥ ६ ॥
त्रिकोणे इति ॥ कुजान्मंगलात् त्रिकोणे नवमपंचमे सौरिशुक्रज्ञजीवाः शनैश्वरशुक्रबुधगुरवश्रेत्स्युरथवा एकोऽपि वा सौरिशुक्रज्ञजीवानामन्यतमश्चेत्रिकोणे स्यात्तदा याता यां दिशमुद्दिश्य जिगमिषति तत्र दिशि गमो गमनं न स्यात् । वा अथवाऽर्काच्छशी त्रिकोणे चेत्स्यात्तदाप्युद्दिष्ट दिग्गमनं न स्यादेव । तर्हि कस्यां दिशि गमनं स्यादित्यत आह-बलीयानिति । तयोर्मध्येऽधुनोक्तोद्दिष्टदिक्प्रतिबंध कारकयोर्मध्ये यो ग्रहो बलवान्स्यात्स्वकीयां दिशं प्रत्युत सांप्रतं नयेत् । चः पादपूरणे । यदाह वराहः - ' एकोऽपि जीवज्ञसितासितानां कुजात्रिकोणे रवितोऽथवेंदुः । यत्रोद्यतस्तत्र न याति याता तयोर्बलीयान्नयति स्वकाष्ठाम् ॥' इति । काष्ठां = दिशम् । ग्रहदिशस्तु 'सूर्यः सितो भूमिसुतः' (११।४६ ) इत्यादिना वक्ष्यति ॥ ६ ॥
अथैतादृशं द्वितीयं योगं मदलेखाछंदसाह -
प्रश्ने गम्यदिगीशात्खेटः पंचमगो यः । बोभूयाद्वलयुक्तः स्वामाशां नयतेऽसौ ॥ ७ ॥
प्रश्न इति ॥ गम्यदिगीशात् गंतुमिष्टा या दिक् तस्या ईशः स्वामी प्रश्ने प्रश्नलग्ने यस्मिन्स्थाने स्यात्ततः पंचमे स्थाने यो ग्रहो बलयुक्तो बोभूयाद्वलयुक्तो भवेत्तदासौ ग्रहः स्वां स्वीयामाशां दिशं नयते प्रापयति । उक्तं च वराहेण - ' यात्रादिगीशाद्यदि पंचमेऽन्यो गृहे ग्रहो वीर्ययुतस्तु तिष्ठेत् !