________________
मुहूर्तचिंतामणिः । [शुभाशुभफलदाः प्रश्नाः तदापि जय एव ।) अथवा तनौ प्रश्नलग्ने शुभवर्गकः शुभग्रहाणां षड्वर्गकश्चे. त्स्यात्तदापि जय एव । अथवा यदि मस्तकोदयाः शीर्षोदयराशयः प्रश्नगताश्चेस्युस्तदापि जय एव । शीर्षोदयराशीनाह वराहः-'गोजाश्विकर्किमिथुनाः समृगा निशाख्याः पृष्ठोदया विमिथुनाः कथितास्त एव । शीर्षादया दिनबलाश्च भवंति शेषा लग्नं समेत्युभयतः पृथुरोमयुग्मम् ॥' इति । पृथुरोमा मीनः । श्रीपतिः-'इदमप्यरिसंभवं यदाऽस्ते हिबुके वा विजयस्तदापि यातुः । शिरसोदयमैति यश्च राशिर्जयकृत्सोऽप्युदये तथेष्टवर्गः ॥' इति । यदा अस्ते इति पदच्छेदः । अस्ते सप्तमस्थाने । इदंशब्देन प्रागुक्तपद्योक्तार्थः परा. मृश्यते । 'जन्मराशिरुत जन्मविलग्नं तत्पती उदयगौ यदि वा स्तः । न्यायकर्मरिपुभान्युत ताभ्यां शत्रुसंक्षयमवेहि तदानीम् ॥' जन्मराशिरित्यादिकं सर्व शत्रुसमुद्भवं चेदस्ते सप्तमस्थाने स्यादथवा हिबुके स्यात्तदापि यातुनृपस्य विजय इत्यर्थः । वराहोऽपि-'उदयमुदयपं वा जन्मभं जन्मपं वा तदुपचयगृहं वा वीक्ष्य लग्ने यियासोः। विनिहतमरिपक्षं विद्धि शबोरिद वा हिबुकगृहसमेतं पृच्छतोऽस्तस्थितं वा ॥' इति ॥ ३ ॥
अथाज्ञातजन्मनां शुभफलदं प्रश्नं तोटकछंदसाहयदि पृच्छितनौ वसुधा रुचिरा शुभवस्तु यदि श्रुतिदर्शनगम् । यदि पृच्छति चादरतश्च शुभग्रहदृष्टयुतं चरलग्नमपि ॥ ४॥
यदीति ॥ अत्र वसुधापतेर्जय इत्यनुवर्तते । यदि पृच्छितनौ प्रश्नलने वसुधा भूमी रुचिरा स्यात् , अथवा यदि शुभवस्तु मांगल्यवस्तु वस्त्राभरणादि श्रुतिदर्शनगं श्रवणगोचरं दर्शनगोचरं वा; दर्शनमत्र चाक्षुषम् , अथवा प्रष्टा आदरतो दैवज्ञं पृच्छति, तदा वसुधापतेर्जयः स्यादिति सर्वत्र व्याख्येयम् । यदाह श्रीपतिः-'मनोरमा भूर्यदि पृच्छतः स्यान्मांगल्यवस्तुश्रुतिदर्शने स्तः। यद्यादरात्पृच्छति वा ग्रहशं तदादिशेदस्ति जयस्तवेति ॥' इति । अथवा चरलग्नं मेषकर्कतुलामकराणामन्यतमं यदि प्रश्नलग्नं शुभग्रहैः दृष्टं युतं वा तदापि राज्ञो जयः। 'करोति राशिर्गमनं फलं च चरो विलग्ने शुभदृष्टयुक्तः' इति श्रीपत्युक्तेः ॥ ४ ॥ अथ ज्ञाताज्ञातजन्मनां पुंसां साधारण्येनाशुभफलदं प्रश्नं मालिनीछंदसाह
विधुकुजयुतलग्ने सौरिदृष्टेऽथ चंद्रे ___ मृतिभमदनसंस्थे लग्नगे भास्करेऽपि । हिबुकनिधनहोराछूनगे वापि पापे
सपदि भवति भंगः प्रश्नकर्तुस्तदानीम् ॥५॥ विध्विति ॥ विधुकुजयुते चंद्रमंगलयुक्त लग्ने सौरिणा शनिना दृष्टे तदा