________________
प्रयाणे शुभफलावेदकप्रश्नौ] यात्राप्रकरणम् ११ ।
३२९ सदसि सदिति वाच्यं यद्यपि स्यादनिष्टं स्फुटमपि कथनीयं मंत्रिणे भूभुजे वा ॥' इति ॥१॥ __ अथ ज्ञाताज्ञातजन्मनां पुंसां साधारण्येन यात्रा वक्ष्यते । तत्र ज्ञातजन्मनां जातकाद्यवगतशुभफलानां यात्राविचारोऽल्पायाससाध्यः । अज्ञातजन्मनां तु जातकशास्त्रे प्रश्नाद्यनुक्तेः कथं तद्यावानिर्वाह इत्याशंक्य शुभफलयात्रावेदकं प्रश्नं द्रुतविलंबितेनाहजननराशितनू यदि लग्नगे तदधिपौ यदि वा तत एव वा । त्रिरिपुखायगृहं यदि वोदयो विजय एव भवेद्वसुधापतेः ॥२॥
जननेति ॥ नन्वत्र कथमज्ञातजन्मत्वं यावता जन्मराशिलग्नज्ञानं विना समयज्ञानं नैव भवेत् ? सत्यम् । यद्यपि राशिलग्नज्ञानं जातं तथापि विशिष्यजातकावगतशुभफलदग्रहदशानवगमादज्ञातजन्मत्वं ज्ञेयम् । अत एव राशिलग्नज्ञानाभावे यदि पृच्छति प्रश्नं वक्ष्यति । जननं जन्म तत्संबंधिनी राशिलग्ने ते यदि प्रश्ने स्यातां जन्मराशिर्जन्मलग्नं वा यदि प्रश्नलग्नं स्यात्तदा वसुधापते राज्ञो विजय एव । अथवा तदधिपौ जन्मलग्नजन्मराश्योः स्वामिनी लग्नगतो स्यातां तदापि वसुधापतेर्विजयः। अथवा तत एव ताभ्यामेव जन्मलग्नजन्मराशिभ्यामेव त्रिरिपुखायगृहं तृतीयषष्ठदशमैकादशानामन्यतमं गृहं यधुदयो लग्नं स्यात्तदापि वसुधापतेर्विजय एव । शत्रुक्षय एव स्यादित्यर्थः । यदाह नारदः-'जन्मोदये जन्मराशौ तयोरीशस्थभेऽपि वा। ताभ्यां व्यायारिदशने यातुः शत्रुक्षयो भवेत् ॥' इति । अत्र तदीशः शुभग्रहश्चेल्लग्नगोऽपेक्षित इत्यपि विशेषो ध्येयः। यदाह वसिष्ठः-'जन्मराशौ लग्नगते तदीशे वापि लग्नगे। अभीष्टफलदा यात्रा राशीशश्वेच्छुभग्रहः ॥ जन्मलग्ने लग्नगते तदीशे वापि लग्नगे । अर्थलाभप्रदा यात्रा लग्नेशश्वेच्छुभग्रहः ॥' इति । केचित् ताभ्यामित्यनेन जन्मलग्नजन्मराश्यधिपाभ्यामित्याहुः । तन्न; 'जन्मराशिविलनाभ्यां लग्ने वोपचये गृहे। संपूर्णफलदा यात्रा तथैव विजयप्रदा ॥' इति वसिष्ठेन कंठत एव जन्मराशिलग्नाभ्यामित्युक्तत्वात् ॥ २ ॥
अथान्य प्रश्नं मंजुभाषिणीछंदसाहरिपुजन्मलनभमथाधिपौ तयोस्तत एव वोपचयसम चेद्भवेत् । हिबुके धुनेऽथ शुभवर्गकस्तनौ यदि मस्तकोदयगृहं तदा जयः॥
रिपुजन्मलग्नभमिति ॥ रिपोः शत्रोर्जन्मलग्नभं यजन्मलग्नं जन्मराशिश्च तच्चेत्प्रश्नलग्नाद् हिबुके चतुर्थे धुने सप्तमे वा स्यात्तदा राज्ञो जयो भवेत् । अथवा तयोः शत्रुजन्मलग्नराश्योरधिपौ स्वामिनौ प्रश्नलग्नाद्धिबुके धुने वा स्यातां तदापि जय एव । (अथवा तत एव ताभ्यां शत्रोर्जन्मलग्नजन्मराशिभ्यामेव चोपचयगृहं त्रिषडेकादशदशमानामन्यतमगृहं प्रश्नलग्नाद्धिबुके धुने वा चेत्