________________
मुहूर्तचिंतामणिः। [बृहयात्रायां विशेषः यात्रायां प्रविदितजन्मनां नृपाणां
दातव्यं दिवसमबुद्धजन्मनां च । प्रश्नाद्यैरुदयनिमित्तमूलभूतै
विज्ञाते ह्यशुभशुभे बुधः प्रदद्यात् ॥ १॥ यात्रायामिति ॥ वैरिव्यतिरिक्तसकललोकहितकारित्वान्नपस्य वक्ष्यमाणशुभाशुभसमुदायविचारस्य सकलशिष्टसंमतत्वेन तदधीनत्वाच्च नृपग्रहणम् । न च नृपग्रहणादाज्ञामेवैष विचारो युक्त इति वाच्यम् । वक्ष्यमाणयोगलग्नेषु प्रतिश्लोकं राजपदानुपादानप्रसंगात् । प्रकरणादेव तल्लाभात् । अविस्मरणार्थमिति चेन्न । दिक्शूलादावप्यविस्मरणार्थ नृपग्रहणं कर्तव्यं स्यात् । तस्माद्यथासंभवं राजव्यतिरिक्तस्य ब्राह्मणादेरप्येष विचार उपयोज्यः । एवमेव च वसिठाधुषिवाक्येष्वपि समाधेयम् । प्रविदितं छायाघटिकादिना ज्ञातं जन्म जन्मसमयो लक्षणया तत्कालीनलग्नकुण्डलीस्थशुभाशुभग्रहसूचितशुभाशुभफलोदर्कज्ञानं येषां तेषां नृपाणां यात्रायां दिवसं दातव्यं, यात्रादिनं देयमित्यर्थः । 'वा तु कीवे दिवसवासरौ' इति दिवसशब्दो नपुंसकलिंगः। तच्च ज्ञानं जातकशास्त्राधीनम् । शुभफलदग्रहस्य दशायामंतर्दशायां च राज्ञा यात्रा विधेया। अशुभफलदग्रहस्य दशायामंतर्दशायां च यात्रा नैव विधेया। यदाह वराहः'विदिते होराराशौ स्थानादिबले ग्रहाणां च । आयुषि च परिज्ञाते शुभमशुभं यातुरिह वाच्यम् ॥' इति । वसिष्ठोऽपि-'निखिलगुणयुजां राज्ञां कथयामि विधानमत्र यात्रायाम् । जातकमवलोक्य वदेत्फलसिद्धिस्त्वन्यथा मृषा भव. ति ॥' इति । ननु यस्य दैवाजन्मकालो न विदितस्तस्य कथं यात्रा स्यादित्यत आह-अबुद्धति।अबुद्धमज्ञातं जन्म जन्मकालो येषां तेषामपि प्रश्नाद्यैः पृच्छोपश्रुत्यादिभिरशुभे शुभे विज्ञाते निर्माते सति बुधो यात्रादिवसं प्रदद्यात् । कीदृशैः? उदयो दिने दिने राज्याभिवृद्धिः, अथवा लग्नं निमित्तं शकुनादि, एतदादीनि वस्तूनि मूलभूतानि निदानकारणानि येषां तैः । यदाह नारदः-'अज्ञातजन्मनां नृणां फलाप्तिर्षुणवर्णवत् । प्रश्नोदयनिमित्ताद्येस्तेषामपि फलोदयः ॥' इति । नन्वत्र नारदवाक्ये अज्ञातजन्मनः पुंसो यात्राफलं घुणाक्षरतुल्यमिति पूर्वार्धे उक्तम् । प्रश्नादिना तु शुभफलसद्भावे तादृशस्यापि फलाप्तिरिति पूर्वापरविरोधः। उच्यते,-प्रश्नादिना हि शुभाशुभनिर्णयेऽकृते निष्पन्नमपि यात्राफलं घुणाक्षरतुल्यम् । घुणः कीटविशेषः । स यथाशक्ति काष्ठं भिंदन् तत्र दैवादेकः ककारादिको वर्णो जायते तद्वदिदम् । यदा तु प्रश्नादिना शुभनिर्णयसद्भावे क्रियमाणा यात्रावश्यफलदेति न कोऽपि विरोधः । विशेषमाह बृहद्यात्रायां वराहः-'तस्मानृपः कुसुमपुष्पफलाग्रहस्तः प्रातः प्रणम्य रवये हरिदिङ्मुखस्थः । होरांगशास्त्रकुशलान्हितकारिणश्च संगृह्य देवगणकान्सकृदेव पृच्छेत् ॥ अथ नृपतिसमीपे दैववित् पृष्टमात्रः फलमुदयनिमित्तैस्तर्कयेच्छास्त्रदृष्टया ।