________________
यात्राया द्वैविध्यम् ]
यात्राप्रकरणम् ११ ।
३२७
'त्रिलाभसंस्थौ शनितिग्मरश्मी मेषूरणे बंधुगृहे गुरुश्च । यस्यात्र योगे क्रियतेऽभिषेक: संपत्स्थिरा तस्य चिरायुषः स्यात् ॥' इति । मेषूरणं = दशमम् | केचिधिलाभारिगौ सौरिसूर्यावित्याहुः । अन्यत्समानम् । तृतीयैकादशषष्ठानामन्यतमस्थानद्वये स्थितौ सौरिसूयौं स्यातामित्यर्थः । एतदपि युक्तमेव । यदाह वसिष्ठः - 'दुश्चिक्यलाभारिगताविनाक खस्थोऽमरेज्यो यदि बंधुगे । यस्यात्र योगे क्रियतेऽभिषेक: संपत्स्थिरा तस्य चिरायुषः स्यात् ॥' इति । अत्र वचनद्वयप्रामाण्याद्विकल्प इति शिवम् ॥ ४ ॥
अथ राजाभिषेकप्रकरणं गद्येनोपसंहरति
इति श्रीदैवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्तचिंतामणौ राजाभिषेकप्रकरणं समाप्तम् ॥ १० ॥
स्पष्टार्थमेतत् ॥
ज्योतिर्विद्वरनीलकंठविदुषः श्रीचंद्रिकायास्तथा पुत्रेणाहिगवीप्रसारितधिया मौहूर्तचिंतामणेः । गोविंदेन विनिर्मिते नयनिधौ पीयूषधाराभिधे व्याख्याने ह्यभिषेचनप्रकरणं राज्ञोऽगमत्पूर्णताम् ॥ १ ॥
इति श्रीमद्दैवज्ञमुकुटालंकारनीलकंठज्योतिर्वित्पुत्रगोविंदज्योतिर्विद्विरचितायां मुहूर्तचिंतामणिटीकायां पीयूषधाराभिधायां राजाभिषेकप्रकरणं समाप्तम् ॥ १० ॥
अथ यात्राप्रकरणम् ११ ।
000
पार्वतीहृदयपद्मभास्करं वक्रतुण्डमघसंघवारणम् । संप्रणम्य कुरुते नयान्वितां यात्रिकप्रकरणस्य दीपिकाम् ॥ १ ॥
अथ यात्राप्रकरणं व्याख्यायते । तत्र किंचित्कार्यमुद्दिश्य देशांतरगमनं यात्रा । सा च संक्षेपतो द्विविधा - एका समरविजययात्रा, अपरा सामान्ययात्रा । तत्र शत्रुनगरजयार्थं वक्ष्यमाणयोगलग्नजातकोत्तराजयोगलग्नेषु प्राधान्येन या यात्रा सा समरविजयाख्या । यद्यपि कानिचिन्नगराणि विनैव युद्धं कटकबाहुल्यादेव वशं यांति तथापि युद्धसंभावनास्त्येव । या द्रव्यार्जनार्थ वाराणस्यादितीर्थदर्शनार्थ वा तिथ्यादिशुद्धिमंगीकृत्य यात्रा सा सामान्ययात्रा | तदुक्तं वसिष्ठेन – 'परविषये विजयार्थं गंतुं यात्रा तु समरविजयाख्या । निखिलाsपरयात्रा या सामान्या सा भवेद्विविधा ॥ कथिततिथिवासरर्क्षेष्वभिमतफलदा भवेच्च सामान्या । समराह्वया च यात्रा योगविलग्नक्षितीशयोगेषु ॥' इति । तत्र यात्राप्रकरणं प्रारिप्सुग्रंथ कृद्यात्राधिकारिणस्तावत् प्रहर्षिणीछंदसाह—