________________
३२६
मुहूर्तचिंतामणिः । [ राज्ञः संपत्स्थैर्यकरयोग
हि राज्ञाम् ॥' इति । अपिशब्दात् स्वजन्मराशेरप्युपचयभवनं ग्राह्यम् । यदाह कश्यपः - 'जन्मराशेरुपचये लग्ने शीर्षोदये स्थिरे । शुभग्रहेक्षितयुते नयुते नेक्षिते परैः॥’इति । परैः=पापग्रहैः । पापैस्तृतीयष ष्ठैकादशस्थानस्थितैः शुभग्रहैः प्रथमचतुर्थसप्तमदशमनवपंचमैकादशद्वितीयतृतीयस्थानस्थितैः राजाभिषेकः शुभदः । यदाह वसिष्ठः - 'त्रिकोणकेंद्रनिधनेषु सौम्यैस्त्रिषष्टलाभर्क्षगतैश्च पापैः पैः । षष्ठाष्टलग्नव्ययवर्जितेन चंद्रेण राज्ञां शुभदोऽभिषेकः ॥' इति ॥ २ ॥
अथ स्थानविशेषे पापग्रहैरशुभं फलं सापवादं इंद्रवंशयाहपापैस्तनौ रुङ निधने मृतिः सुते पुत्रार्तिरर्थव्ययगैर्दरिद्रता । स्यात्खेऽलसो भ्रष्टपदो द्युनांबुगैः सर्वं शुभं केंद्रगतैः शुभग्रहैः ॥३॥
पापैरिति ॥ तनौ लग्ने स्थितैः पापग्रहैः रुक् रोगः स्यात् ; राज्ञो नाश इति शेषः । निधने अष्टमस्थाने पापग्रहैः मृतिः मृत्युः स्यात् । सुते पंचमस्थाने पापग्रहैः पुत्रार्तिः पुत्रजनितपीडा स्यात् । अर्थव्ययगैः द्वितीयद्वादशस्थानस्थितैः पापैः दरिद्रता दारिद्र्यं स्यात् । खे दशमे पापग्रहैः अलसो निरुद्योगः । द्युनांबुगैः सप्तमचतुर्थस्थानस्थितैः पापग्रहैर्भष्टपदो भ्रष्टैश्वर्यः स्यात् । उपलक्षणत्वात् षष्ठाष्टमद्वादशस्थानस्थितश्चंद्रोऽपि मृत्युदः । यदाह वसिष्ठः - 'पापग्रहैः स्वांत्यगतैश्च निःस्वो रोगी विलग्नोपगतैर्भवेत्सः । पदच्युतः सप्तचतुर्थगैस्तु पुत्रस्थितैः सर्वसुतैर्विहीनः ॥' इति । ' नूनं व्ययाष्टारिगतः शशांकः क्षितीश्वरं हंति तदा बलिष्ठः' इति बलिष्ठशब्दोपादानान्निर्बलचंद्रो व्ययाष्टमषष्ठगतो न दुष्टफलद इति तात्पर्यम् ॥ अथापवादमाह - सर्वमिति । केंद्वगतैः शुभग्रहैः सर्वं प्रागुक्तं दुष्टफलं शुभं शुभोदर्कं स्यात् । उक्तं च................ ॥ ३ ॥
अथाभिषेके राज्ञः संपत्स्थैर्यकर्तृ योगद्वयं भुजंगप्रयातेनाहगुरुर्लनको कुजोऽरौ सितः खे स राजा सदा मोदते राजलक्ष्म्या । तृतीया गौ सौरिसूर्यौ खबंध्वोर्गुरुश्चेद्धरित्री स्थिरा स्यान्नृपस्य ॥४॥
गुरुरिति ॥ लग्ने गुरुश्चेत्स्यात्, अथवा कोणे नवमे पंचमे वा गुरुः स्यात्, कुजो मंगलोsरौ शत्रुगृहे षष्ठे स्यात्, सितः शुक्रः कर्मगो दशमगः स्यात् ; एता
अभिषेकयोगे यो राजा अभिषिच्यते स राजा सर्वदा सार्वकालं राजलक्ष्म्या मोदते । अयमेको योगः । यदाह वसिष्ठः - 'यस्याभिषेके पुरुहूतमंत्री लग्ने त्रिकोणे यदि वा भवेत्सः ॥ षष्ठः कुजः कर्मगतश्च शुक्रः स मोदते विक्रमराजलक्ष्म्या ॥' इति । अथापरो योगः । सौरिसूय तृतीयायगौ स्यातां यथासंख्यं शनिस्तृतीये सूर्यः रविः एकादशे स्यात्, गुरुः खबंध्वोः खे दशमे बंधौ चतुर्थे वा चेद्गुरुः स्यात्, एवंविधे योगेऽभिषिक्तस्य नृपस्य राज्ञः धरित्री पृथ्वी स्थिरा सदा हस्तगता स्यात् । यदाह कश्यपः - 'त्रिलाभस्थः शनिः सूर्यश्चतुर्थे वांबरे गुरुः । यस्याभिषेकः क्रियते तत्र तस्य मही स्थिरा ॥' इति । श्रीपतिरपि -