________________
मुहूर्तचिंतामणिः । [यात्रायां प्रशस्तनक्षत्राणि तम्, 'तुहिनकरमंदवारे शक्रदिशं न बजेद् गुरौ च याम्यायाम् । रविसितदिने प्रतीच्यां सौम्यदिशं ज्ञारयोश्च वारशूलं स्यात् ॥' इति वसिष्ठवाक्यबोधितमपि पापग्रहवारशूलं सर्वमते निरर्थकमापयेत, सामान्यत एव निषेधसत्वात् । दोषाधिक्यसूचनार्थमिति चेन्न । भिन्नकर्तृकेषु मुनिग्रंथेषु मुनिवचनानां वैयर्थ्यानहत्वादेवंविधा गतिरुचिता; नत्वेककर्तृके ग्रंथे । तत्र हि पूर्वापरविरोधे अर्थातरं वा कार्य, ग्रंथांतरेण सहैकवाक्यता वा कार्या । तत्रायं वसिष्ठवाक्यस्वरस:-'तुहिनकरमंदवारे' इति वाक्यात्पापवारनिषेधो गौण इत्यनुमीयते । तत्र तस्य गतिस्त्वेवम्-यदा स्वजन्मराशेरुपचयस्थानस्थो यो ग्रहः स्यात्स शुभः पापो वा भवतु सर्वदिक्षु हितः परंतु शूलदिशो विहाय, यदा त्वनुपचयस्थानस्थः स्यात्स कुत्रापि न हितः । यदाह राजमातेंड:-'उपचयकरग्रहदिने शुद्धिः क्रूरेऽपि पापिनां भवति । सौम्येऽप्यनुपचयस्थे न भवति यात्रा शुभा यातुः ॥' इति । एवं ग्रंथभेदेन चंद्रशुभाशुभोक्तिरपि परिहर्तव्या । केचित् पुष्टक्षीणचंद्रविषयेत्याहुः । तस्मानार्थो वारोक्त्या । अतो ग्रंथकृतापि नोक्ता वारा इत्यलमतिप्रसंगेनेति प्रस्तुतमनुसरामः। हयेति । हयोऽश्विनी, आदित्यं पुनर्वसुः, मित्रोऽनुराधा, इंदुम॒गः, जीवः पुष्यः, अंत्यं रेवती, हस्तादयः प्रसिद्धाः; एतैर्नवनक्षत्रैरेव यात्रा प्रशस्तोत्तमा । यदाह वसिष्ठः--'पौष्णद्वयादित्यकरेज्यमित्रविष्ण्विदुवस्वाह्वयभानि यानि । श्रेष्ठानि यात्रासु नवैव तानि मुक्त्वा त्रिपंचादिमसप्तमानि॥' इति । श्रेष्ठानि' इत्युक्तेः कियतां नक्षत्राणां मध्यमत्वं कियतां निकृष्टत्वं चानुमीयते । तदपि तेनैवोक्तम्'तिनोत्तरावारुणनैत्रतेंद्रपूर्वात्रयं ब्राह्मभयुग्दशैव । मध्यानि नेष्टान्यनलानिलेशद्विदैवचित्राहिमघांतकानि ॥' इति । तिस्र उत्तरा इति वक्तव्ये तिस्रोत्तरा इत्यार्षः संधिः । गुरुस्तु बहूनि भानि निषिद्धान्याह-'पूर्वासु त्रिषु याम्यः ज्येष्ठायां रौद्भौरगे । सर्वाशासु गते यात्रा प्राणहानिर्भविष्यति ॥' इति । केचित्तु-'पूर्वात्रयं सानलमग्रजानां राज्ञां तु पुष्येण सहोत्तराणि । सपौष्णमैत्रं पितृदैवतं च प्रजापतेभं च कृषीवलानाम् ॥ आदित्यहस्ताभिजिदाश्विनानि वणिग्जनानां प्रभवंति भानि । मूलत्रिनेत्रानलवारुणानि भान्युग्रजातेः प्रभविष्णुतायाः ॥ सौम्येंद्रचित्रावसुदैवतानि सेवाजनस्वाम्यमुपागतानि । सापं विशाखा श्रवणो भरण्यश्चांडालजातेरभिनिर्दिशंति ॥' इति वराहोक्तेर्जातिविशेषेण यात्रानक्षत्राण्याहुः; तच्चिंत्यम् । यतो वराहसंहितायां नक्षत्रव्यूहाध्याये पंचदशसंख्याके एतानि पद्यान्युक्तानि, तत्र देशजातिवस्त्वाद्युक्तेरशुभोपघाते तेषां देशानां जातीनां च गोधूमादिवस्तूनां च पीडा; अन्यथा हि शुभमिति तस्यार्थः । उक्तं च तत्रैव वराहेण-रविरविसुतभोगमागतं क्षितिसुतभेदनवक्रदूषितम् । ग्रहणगतमथोल्कयाहतं नियतमुषाकरपीडितं च यत् ॥ तदुपहतमिति प्रचक्षते प्रकृतिविपर्यययातमेव वा । निगदितपरिवर्गदूषणं कथितविपर्ययगं समृद्धये ॥' इति । परिवर्गः स्ववर्गः ॥ ९॥