________________
३३५
तत्र वार-नक्षत्र-शूलादि ] यात्राप्रकरणम् ११ ।
अथ वारशूल-नक्षत्रशूले पृथ्वीछंदसाहन पूर्वदिशि शक्रभे न विधुसौरिवारे तथा
न चाजपदभे गुरौ यमदिशीनदैत्येज्ययोः। न पाशिदिशि धातृभे कुजबुधेऽयमा तथा
न सौम्यककुभि व्रजेत्स्वजयजीवितार्थी बुधः ॥१०॥ न पूर्वदिशीति ॥ शक्रभे ज्येष्ठानक्षत्रे पूर्वदिशि न व्रजेत् । तथा विधुसौरिवारे सोमशनिवारेऽपि पूर्वदिशि न व्रजेत् । तथा अजपदभे पूर्वाभाद्रपदानक्षत्रे तथा गुरौ गुरुवारेऽपि यमदिशि न व्रजेत् । इनदैत्येज्ययोः रविशुक्र. वारयोस्तथा धातृभे रोहिण्यां पाशिदिशि पाशी वरुणस्तस्य दिशि पश्चिम दिशि न व्रजेत् । कुजबुधे मंगलबुधवारे तथार्यमा उत्तराफल्गुन्यां सौम्यककुभ्युत्तरदिशि न व्रजेत् । कः ? बुधः पंडितो ज्ञाता वा राजादिः । कीदृशो बुधः ? स्वजयजीवितार्थी । स्वं धनं, जयः शत्रुपराजयपूर्वकः स्वोत्कर्षः, जीवितमायुष्यं, एतानि अर्थयतेऽसौ । गच्छतश्च पुंसो द्रव्यनाशो जयनाशो मरणं वा स्यादिति निष्कृष्टोऽर्थः । यदाह नारदः-'न मंदेंदुदिने प्राची न बजेद्दक्षिणां गुरौ । सितार्कयोन प्रतीची नोदीची ज्ञारयोरपि ॥' इति । राजमार्तडेन विशेष उक्तः-'तोयेशवह्निधनदांतकराक्षसानां यातोऽथवानिलशतक्रतुशंकराणाम् । दिग्भागमुष्णकिरणादिदिनेषु देवैः संरक्षितोऽपि निधनं न चिरादुपैति ॥ सूर्य शुक्रे कुजे राहो मंदे चंद्रे बुधे गुरौ । अग्रतः शोभना यात्रा पृष्ठतो मरणं ध्रुवम् ॥ प्रतीची रविवारेण प्राची च रविनंदने । उदीची भूमिपुत्रेण न यायाद्दक्षिणां गुरौ ॥' इति, तदेतदार्षवाक्यमूलाभावादुपेक्ष्यम् । वसिष्ठः'पुरुहूतदिशं पुरंदरः नेयाद्याम्यदिशं त्वजांघ्रिधिष्ण्ये । जलनाथदिशं पितामहः शूलाख्यान्यथ सौम्यमर्यमः॥' इति । पितामहः रोहिणी । सौम्यं सोमदेवताकं दिशम् , उत्तरदिशमित्यर्थः । एतत्फलमप्याह वसिष्ठः-'शूलसंज्ञानि धिष्ण्यानि शूलसंज्ञाश्च वासराः । यायिनां मृत्युदाः शीघ्रमथवा चार्थहा. निदाः ॥' इति । वारशूलपरिहारमाह गुरुः-'सूर्यवारे घृतं प्राश्य सोमवारे पयस्तथा । गुडमंगारके वारे बुधवारे तिलानपि ॥ गुरुवारे दधि प्राश्य शुक्रवारे यवानपि । माषान्भुक्त्वा शनेवारे गच्छन्शूले न दोषभाक् ॥ तांबूलं चंदनं मृच्च पुष्पं दधि घृतं तिलाः । वारशूलहराण्यांद्दानाद्धारणतोऽदनात् ॥' इति । ननु 'हयादित्य-' (१११९) इत्यादिना नवैव भानि यात्रायां प्रशस्तान्युक्तानि, तत्रैतासां ज्येष्ठापूर्वाभाद्रपदारोहिण्युत्तराफाल्गुनीनां यात्रायां प्राप्यभावः । किंच अग्रे (पृ०३५३) दिग्द्वारभानि सपरिघानि वक्ष्यते। तत्र ज्येष्टा पश्चिमास्थत्वात्प्रागुदीच्योः परिघः । पूर्वाभाद्रपदोत्तरास्थत्वाद्दक्षिणापश्चिमयोः परिघः। रोहिणी प्राक्स्थत्वाद्दक्षिणपश्चिमयोः परिघः। उत्तराफाल्गुनी दक्षिणास्थत्वात्प्रागुदीच्योः परिघः। तत्र 'प्राप्तिपूर्वकत्वात्प्रतिषेधस्य' इति न्यायान्नक्षत्रशूलाभिधानं व्यर्थमिति चेत् । उच्यते,-'योगासिद्धिर्धरणिपतीनाम्' (११।५४) इति वक्ष्यति-तत्र