________________
३३६
मुहूर्तचिंतामणिः । [ क्वचित्कालशूले यात्रानिषेधः
योगयात्राया आत्ययिककार्यविषयत्वात् पंचाङ्गशुद्धिमनादृत्य केवललग्नशुद्धौ राज्ञां यात्रायाः प्रशस्ततरत्वोक्तेः । यदाह पराशरः - 'आत्ययिककार्ययाते दैवे - न निपीडितेच यातव्ये । केवलविलग्नयोगादपि याता सिद्धिमाप्नोति ॥' इति । तत्र यदि नक्षत्रशुद्धौ दैवाद्विहितनक्षत्रादन्यनक्षत्रेष्वपि यात्राप्रसक्तौ सत्यां कदाचित्पूर्वस्यां दिशि गंतुर्ज्येष्ठानक्षत्रेऽपि यात्रा स्यात् । एवं दक्षिणादिदिग्गमने पूर्वाभाद्रपदा दिनक्षत्रेष्वपि यात्रा स्यात्, सामा भूदित्येतदर्थं नक्षत्रशूलोक्तिः । किंच 'तिस्रोत्तरा - ' इत्यादीनां दशनक्षत्राणां निंद्यानिंद्यव्यतिरिक्तफलत्वेन मध्यमत्वोक्तेर्विहितनक्षत्रालाभसंभवे मध्यमनक्षत्रेषु यात्रायां प्राप्तायां ज्येष्ठादिषु दिक्शूलनक्षत्रेषु सर्वथा यात्रा न कार्येति वा समाधिः । अत एव दक्षिणदिशि त्रयाणामपि प्राशस्त्यावगतेः 'ऋक्षगुणैरपि भूदेवानाम् ' (११।५४) इति वचनाब्राह्मणानां नक्षत्रप्राशस्त्यस्यावश्यकत्वाच्च मध्यमनक्षत्रेषु सर्वथा यात्रा न कार्या इति वा समाधिः । अत एव दक्षिणदिशि धनिष्ठादिपंचकनिषेधोपपत्तिः । शततारका पूर्वाभाद्रपदोत्तराभाद्रपदानां मध्यमत्वात् । नन्वेवं सति दक्षिणदिशि धनिष्ठादिपंचकनिषेधादेव पूर्वाभाद्रपदा निषेधः सिद्धः, किं पुनर्निषेधेन ? उच्यते, – दोषाधिक्य सूचनार्थमेवेति ऋजवः । वयं तु यदा एकस्मिन्नेवाहनि प्रयाणं नगरप्रवेशश्च संभवेत्तदा प्रावेशिक एव मुहूर्तो विचार्य इत्युक्तम् । यदाह गर्गः - 'प्रवेशनिर्गमौ स्यातामेकस्मिन्नेव वासरे । तदा प्रावेशिकं चित्यं बुधैर्नैव तु यात्रिकम् ॥' इति । भृगुरपि - 'एकस्मिन्नपि दिवसे यदि चेद्गमनं प्रवेशश्च । प्रतिशुक्रवारशूलं न चिंतयेद्योगिनीपूर्वम् ॥' इति । तत्र यथा प्रतिशुभद्रादिको दोषो नास्ति, तथेह दक्षिणदेशगमने पंचकदोषोऽपि नास्ति, ताशेऽपि गमने पूर्वाभाद्रपदानिषेधो यथा स्यादित्यजपाग्रहणं कृतमिति ब्रूमः । एतच्च 'योगात्सिद्धिर्धरणिपतीनाम् ' (११।५४) इत्यत्र 'कुल्माषांस्तिलतंडुलानू' (११।८१) इत्यत्रापि च सम्यक् विचारयिष्यत इत्यलं पल्लवितेन ॥ १० ॥
अथ ध्रुवादिनक्षत्रैः पूर्वाह्लादिकालविशेषे कालशूले यात्रानिषेधं शार्दूलविक्रीडितेनाह
पूर्वाह्णे ध्रुवमिश्र भैर्न नृपतेर्यात्रा न मध्याह्न के
तीक्ष्णाख्यैरपराह्न के न लघुभैर्नो पूर्वरात्रे तथा । मैत्राख्यैर्न च मध्यरात्रिसमये चोग्रैस्तथा नो चरै
रात्र्यं ते हरिहस्तपुष्यशशिभिः स्यात्सर्वकाले शुभा ॥। ११ ॥
पूर्वा इति ॥ नृपतेरिति सर्वत्र संबध्यते । ध्रुवाख्यैर्मिश्राख्यैश्च भैर्नक्षत्रैः पूर्वाह्णे यात्रा न स्यात् । तीक्ष्णाख्यै भैर्मध्याह्नके यात्रा न स्यात् । मध्याह्नक इति स्वार्थे कः । अपराह्नके लघुभैर्यात्रा न स्यात् । तथा पूर्वरात्रे मैत्राख्यैर्यात्रा न स्यात् । मध्यरात्रिसमये उग्रनक्षत्रैर्यात्रा न स्यात् । तथा राज्यंते रात्रि तृतीयभागे चरनक्षत्रैर्यात्रा न स्यात् । अत्र विशेषः - हरिहस्तपुष्यशशिभिः श्रवण