________________
कालविशेषे निषेधः ]
यात्राप्रकरणम् ११ ।
हस्तपुष्यमृगैः सर्वकाले षष्टिघटिकात्मकेऽहोरात्ररूपे यस्मिन्कस्मिंश्चित्काले शुभा स्यात् । यदाह वसिष्ठः - 'स्थिरसाधारणधिष्ण्यैः पूर्वाह्ने नैव गमनं सत् । गमनं न दारुणक्षैर्दिनदलसमये न कार्यमशुभं स्यात् ॥ क्षिप्रैर्नापरवासरसमये मृदुभिर्न रात्रिमुखे । उग्रक्षैर्निशि समये चरधिष्ण्यैरुषसि न श्रेष्ठम् ॥' निशिसमये=अर्धरात्रे । तथा चाह श्रीपतिः - 'पूर्वाह्णे ध्रुवमिश्रभैर्न गमनं तीक्ष्णैर्न मध्यंदिने श्रेष्ठं नापरवासरे च लघुभिमैत्रैर्न रात्रेर्मुखे । उग्राख्यैर्न च मध्यरात्रिसमये नेष्टं निशांते चरैः सर्वेष्वेव करैंदवेज्यहारिभिः कालेषु यात्रा शुभा ॥' इति । अत्र दिनस्य रात्रेश्च त्रेधा विभागं कृत्वा पूर्वाह्णादिव्यवहारः प्रसिद्धः । तदेतदुक्तं स्पष्टं महेश्वरेण - 'आद्येऽह्नखिलवे ध्रुवर्क्षसहितैर्मिश्रैर्न यात्रा शुभा नो तीक्ष्णैरपरांशके न लघुभैरह्नस्त्रिभागेऽन्तिमे । त्र्यंशे त्वादिमके निशो न मृदुभैरुमैर्न मध्येंऽशके नांत्यांशे चरभैः करश्रुतिमृगेज्यक्षैः शुभा सर्वदा ॥' इति । ननु 'प्राप्तिपूर्वकत्वात्प्रतिषेधस्य' इति न्यायात् ध्रुवक्षेषु यात्राप्राप्तिरेव नास्ति, किं पुनः पूर्वाह्नादिकालविशेषनिषेधेनेति चेत् । उक्तोऽत्र समाधिः । ननु प्राक्पद्ये 'तिस्रोत्तरा' इत्यादिधुवादीनां मध्यमत्वमं गीकृत्य समाहितम् । मिश्रादीनां तु विशिष्य निषेधात्कथं प्रागुक्तः समाधिरत्र संगच्छेतेति चेत् । सत्यम् । तुल्यन्यायत्वादावश्यकयात्रायां यथा भद्राव्यतीपातादिषु दुष्टेषु केवलां लग्भशुद्धिमाश्रित्यैव यात्रा राज्ञां प्रशस्ता तथा निषिद्धनक्षत्रेष्वपि । अस्मिन्नेवार्थे इदमेव वाक्यं ज्ञापकमिति वयं ब्रूमः । एवं सति काल विशेष निषेधोपपत्तिरपि संगता भवति । पूर्वरात्र इति । रात्रेः पूर्वः पूर्वरात्र इति 'पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे' इत्येकदेशिसमासस्तत्पुरुषः । तत्र समासशास्त्रांतर्गतस्य प्रथमांतपूर्वापरादिवाक्यस्थस्य पूर्वशब्दस्य प्रथमानिर्दिष्टं समास उपसर्जनम्' इत्युपसर्जनसंज्ञकत्वात् 'उपसर्जनं पूर्वम्' इति पूर्वनिपातः । ततः ‘भहः सर्वैकदेशसंख्यातपुण्याच्च रात्रेः' इत्यच्प्रत्ययः समासांत: । 'यस्येति च' इतीकारलोपः । अमुमेवाशयं मनसि निधाय 'उग्राख्यैर्न च मध्यरात्रसमये' इत्यत्र कृतसमासांतमध्यरात्रशब्दं केचित् पठंति; तचिंत्यम् । यतो रात्रेर्मध्यं मध्यरात्र इति विगृह्यते तदैकदेशिसमासविधायकसूत्रे मध्यशब्दस्याभावादेकदेशिसमासोऽनुपपन्नः । अत एव पूर्वनिपातोऽपि न । समासांतस्य त्वनुन्मेष एव । तस्माद्वात्रिमध्यसमये इत्येव पाठ्यं स्यादिति कथमयं प्रयोगः ? उच्यते, - मध्या चासौ रात्रिश्च मध्यरात्रिरिति 'विशेषणं विशेष्येण बहुलम्' इति समानाधिकरणस्तत्पुरुषः । 'पुंवत्कर्मधारयजातीय देशीयेषु' इति पूर्वपदस्य पुंवद्भावः। 'पूर्वा दिक् पश्चिमं नभः' इत्यादिवदेकदेशपर्यवसानमर्धरात्र इत्यर्थः। समासांतस्त्वत्र नैव भवति, 'अहः सर्वैकदेश -' इत्यत्र 'कृत्रिमाकुत्रिमयोः कृत्रिमे कार्ये संप्रत्ययः' इति न्यायादेकदेशिशब्देन पूर्वापरादिसूत्रस्थः प्रतिपदोक्त एकदेशिसमासो गृह्यते, तत एव च समासांतविधानादिति घंटापथकारादयः । ये त्वेवंविधेष्वपि समासेष्वेकदेशिसमासमाश्रित्य समासांतमाहुस्ते समासविधायकसूत्राभावात्समासांतविषये न्यायविरुद्धत्वाच्च चिंत्यो२९ मु० चि०
-३३७