________________
३३०
मुहूर्तचिंतामणिः। [जीवपक्षादिसंज्ञाः कयो ध्येयाः । अतः 'उग्राख्यैनं च मध्यरात्रिसमये' इति श्रीपतिवाक्येऽपि मध्यरात्रिरितीकारांतः पाठः पाठ्यः । एवं मूलेऽपीत्यलमतिविस्तरेण ॥११॥ __ अथ तत्रापि कालविशेषे मध्यमानां निषिद्धानां च कियतां भानां वयंघटिका इंद्रवज्राछंदसाहपूर्वाग्निपित्र्यांतकतारकाणां भूपप्रकृत्युग्रतुरंगमाः स्युः । स्वातीविशाखेंद्रभुजंगमानां नाड्यो निषिद्धा मनुसंमिताश्च ॥१२॥
पूर्वेति ॥ पूर्वात्रये प्रथमातिक्रमे कारणाभावादादिमाः षोडश नाड्यो निषिद्धाः । एवमग्नेः कृत्तिकाया एकविंशतिघटिकाः, पित्र्यस्य मघाया एकादश घटिकाः, अंतकस्य भरण्याः सप्तघटिकास्त्याज्या इत्यर्थः। स्वातीविशाखाज्येष्ठाश्लेषाणां चतसृणां तारकाणां च चतुर्दश घटिकास्त्याज्याः । यदाह भरद्वाजः-'भरण्यां सप्त घटिका वह्निों चैकविंशतिः। एकादश घटीः पित्र्ये त्रिपूर्वासु च षोडश ॥ स्वातीसार्पविशाखासु ज्येष्ठायां च चतुर्दश ॥ वर्जयेच्छेषघटिका यातुः शुभफलप्रदाः ॥' इति एतदप्यावश्यकगमनविषयम् । तथा च तेनैवोक्तम्-'निषिद्धष्वपि ऋक्षेषु त्यक्त्वा दुष्टघटीः क्रमात् । तदन्या घटिका ग्राह्या अवश्यगमने सति ॥' इति । अपिशब्दान्मध्यमेषु ऋक्षेषु ॥१२॥
अथ मतांतरेण वयंघटीत्वमिंद्रवज्रयाहपूर्वार्धमाग्नेयमघानिलानां त्यजेद्धि चित्राहियमोत्तरार्धम् । नृपः समस्तां गमने जयार्थी स्वाती मघां चोशनसो मतेन ॥१३॥
पूर्वार्धमिति ॥ स्पष्टार्थमिदं पद्यम् । यदाह बृहद्यात्रायां वराहः-'विवजयेत्त्वाष्ट्रयमोरगाणामधं द्वितीयं गमने जयेप्सुः । पूर्वार्धमाग्नेयमघानिलानां स्वाती मघां चोशनसः समस्तम् ॥' इति । उशनसो मतेनेति शेषः ॥ १३ ॥ अथ भानां जीवपक्षादिकाः संज्ञा भुजंगप्रयातेनाह
तमोभुक्तताराः स्मृता विश्वसंख्याः ।
शुभो जीवपक्षो मृतश्चापि भोग्याः । तदाक्रांतभं कर्तरीसंज्ञमुक्तं
ततोऽळंदुसंख्यं भवेद्स्तनाम ॥ १४ ॥ • तमोभुक्ततारा इति ॥ तमो राहुनामा ग्रहो विपरीतगतिरस्ति, आगमप्रामाण्यात् ; तेन भुक्ता मुक्ता एवंविधा विश्वसंख्यास्त्रयोदशसंख्यास्तारा नक्षत्राणि जीवपक्षो जीवपक्षसंज्ञानि शुभः शुभकार्यकराणि । भोग्याः राहणाक्रांतनक्षत्रानोग्यानि भोक्तुं योग्यानि गम्यानि त्रयोदश नक्षत्राणि मृतो मृतपक्षसंज्ञानि । तदाक्रांतभं तेन राहुणाक्रांतभं कर्तरी इत्येवं नामकम् । ततो