________________
जीवपक्षादीनां फलवैशिष्ट्यं ] यात्राप्रकरणम् ११ । राहाक्रांतनक्षत्रादक्षंदुसंख्यं पंचदशसंख्याकं भं ग्रस्तनामकं स्यात् । यथाराहुर्हस्तेऽस्ति, तेन भुक्तानि चित्रास्वातीविशाखानुराधाज्येष्ठामूलपूर्वाषाढोत्त. राषाढाभिजिच्छ्रवणधनिष्ठाशततारकापूर्वाभाद्रपदाख्यानि भानि जीवपक्षः। तदाक्रांतभात् हस्तात्पंचदशमुत्तराभाद्रपदाभं ग्रस्तसंज्ञं तेन राहुणा भोग्यानि उत्तराफल्गुनीमघाश्लेषापुष्यपुनर्वस्वामृगरोहिणीकृत्तिकाभरण्यश्विनीरेवत्याख्यानि मृतपक्षः हस्तस्तु कर्तरीसंज्ञमिति । यदाह वसिष्ठः-'राहुस्थितक्ष तस्यास्यं पुच्छं पंचदशं ततः । तदेव केतुर्विज्ञेयः सदा राहुः प्रतीपगः ॥ त्रयोदश च देयानि धिष्ण्यान्युभयपार्श्वयोः । मुखभागो मृतः पक्षो जीवपक्षस्तु पृष्टगः॥' इति । स्वरोदयेऽपि-राहुभुक्तानि ऋक्षाणि जीवपक्षस्त्रयोदश । त्रयोदशैव भोग्यानि मृतपक्षः प्रकीर्तितः ॥ यत्र ऋक्षे स्थितो राहुवंदनं तद्विनिर्दिशेत् । मुखपंचदशे ऋक्षे तस्य पुच्छं व्यवस्थितम् ॥' इति । ग्रंथकृता कर्तरीग्रस्तसंज्ञाः समरसारोक्तत्वात्कृताः। स्वरोदये षडंगरावभिधाने च कृताः । अत्र जीवपक्षमृतपक्षयोरन्वर्थसंज्ञाविज्ञानाजीवपक्षे यात्रा कार्या । मृतपक्षे यात्रा न कार्येति व्यंग्योऽर्थः । कर्तरीग्रस्तयोस्तु फलं स्वयमेव वक्ष्यति 'ग्रस्तक्षं मृतपक्षतः शुभकरं ग्रस्तात्तथा कर्तरी' (११।१५) इत्यादिना ॥ १४ ॥ अथ जीवपक्षादीनां विशेषफलं शार्दूलविक्रीडितेनाहमार्तडे मृतपक्षगे हिमकरश्चेजीवपक्षे शुभा __यात्रा स्याद्विपरीतगे क्षयकरी द्वौ जीवपक्षे शुभा। ग्रस्तर्क मृतपक्षतः शुभकरं ग्रस्तात्तथा कर्तरी ___ यायींदुः स्थितिमान् रविर्जयकरौ तौ द्वौ तयोर्जीवगौ १५
मार्तड इति ॥ मृतपक्षगते मार्तंडे सूर्ये सति चंद्रश्चेजीवपक्षे स्यात्तदा यात्रा शुभा स्यात् । विपरीतगे मार्तडे जीवपक्षगे सति चंद्रश्चेन्मृतिपक्षगस्तदा क्रियमाणा यात्रा यातुः क्षयकरी स्यात् । उक्तं च स्वरोदये-'जीवपक्षे क्षपानाथे मृतपक्षे रवी तथा । तस्मिन्काले शुभा यात्रा विपरीतातु हानिदा ॥' इति । द्वौ सूर्याचंद्रमसौ चेजीवपक्षे स्यातां तदा शुभा शुभतरेत्यर्थः । अर्थात् द्वावपि सूर्याचंद्रमसौ मृतपक्षे स्यातां तदा यात्राऽतिक्षयकरी स्यात् । एतदप्युक्तं तत्रैव'चंद्रादित्यौ यदा युक्तौ जीवपक्षे व्यवस्थितौ । तत्र क्षेमं जयो लामो यात्राकाले न संशयः ॥ मृतपक्षे यथाकाले संस्थितौ चंद्रभास्करौ । तदा हानिर्भयं भंग मृत्युर्यात्राफलं मतम् ॥' इति । अस्यापवादमाह-ग्रस्तक्षमिति । मृतपक्षतः मृतपक्षसंज्ञकनक्षत्रगणात् ग्रस्तक्षं राहाक्रांतनक्षत्रात्पंचदशसंख्याकं भं शुभकरं स्यात् । यथा शवान्मरिष्यमाणो देही प्रबलः, तथा ग्रस्ताद् ग्रस्तनक्षत्रात् कर्तरी राह्वाक्रांतं भं शुभकरं स्यात् । तदुक्तं समरसारे-प्रेताजग्धं किमपि तु वरं कर्तरी जग्धतश्च' इति । एवं सामान्यतः सर्वेषां यात्राफलविचारमभिधाय राज्ञा