________________
· मुहूर्तचिंतामणिः। [सफलं कुलाकुलचक्र विशेषमाह-यायीति। द्विविधोराजा स्थायी यायी चेति । यो राजा स्वदेशे दुर्ग कृत्वा तिष्ठति स स्थायी । यो वैरिणमुद्दिश्य जिगमिषुः स यायी। तदुश्चंद्रो यायी यायिनो राज्ञः स्वामी, रविः स्थितिमान् स्थायिनो राज्ञः स्वामी, तौ द्वौ सूर्याचंद्रमसौ जीवगौ जीवपक्षगतौ संतो तयो राज्ञोः स्थायि-यायिनोर्जयकरौ संधिकरौ स्याताम् । रविश्वेज्जीवपक्षगः तदा स्थायिनो जयः, चंद्रश्चेज्जीवपक्षगस्तदा यायिनो जयः । अर्थात् द्वावपि चेत् मृतपक्षगौ तदा पराजयकरौ स्थाताम् । यदाह वसिष्ठः-'जीवपक्षगयोः सूर्यचंद्रयोः संधिमादिशेत् । उभौ पराजितौ ज्ञेयो मृतपक्षगयोस्तयोः ॥' इति । अत्रापि 'मार्तडे मृतपक्षगे' इत्यनुवर्तत एव । एवं सत्ययमर्थः-मृतपक्षगे सूर्ये चंद्रश्चेजीवपक्षगस्तदा यायिनां राज्ञां शुभा यात्रा जयः स्यात् स्थायिनां पराजयश्च । तदुक्तं वसिष्ठेन'रविः स्थायी शशी यायी तद्वशाच्च जयाजयो । मृतपक्षगते भानौ जीवपक्षगते विधौ ॥ यायिनां विजयस्तत्र स्थायिनां च पराजयः॥' इति । विपरीतगे इति । चंद्रे मृतिपक्षगते सूर्यश्चेजीवपक्षगतस्तदा स्थायिनां राज्ञा-शुभा यात्रा जयः स्यात् । अर्थाद्यायिनां पराजयः।उक्तं च तेनैव-'जीवपक्षगते सूर्य मृतपक्षगते विधौ । स्थायिनां विजयस्तत्र यायिनां च पराजयः ॥' इति । यदा तु सूर्यो राहाक्रांतनक्षत्रे चंद्रोऽक्षंदुसंख्ये तदा यायिनां स्वल्पो जयः स्थायिनां नैव । यदा तु चंद्रो राहाक्रांतनक्षत्रे सूर्योऽळंदुसंख्ये तदा स्थायिनां स्वल्पो जयो यायिनां नैव । यदा द्वावपि राहाक्रांतनक्षत्रे तदा द्वयोरपि पराजयः । यदा तु अरुंदुसंख्यभस्थितौ द्वौ तदा द्वयोरपि संधिरित्यपि विशेषो ध्येयः । यदाह वसिष्ठः'चंद्रे पुच्छे मुखे सूर्ये जयः स्वल्पोऽपि यायिनाम् । व्यत्यये व्यत्ययफलं युद्धेऽप्येवं विचिंतयेत् ॥ यात्रायामपि सर्वत्र चिंतनीयं प्रयत्नतः ॥' इति । तस्मादयं विचारो युद्धयात्रायां अर्थार्जनादिसामान्ययात्रायां च ज्ञेयः । सामान्यतो मंगलकृत्येष्वपि ज्ञेयः । उक्तं च खरोदये-'जीवपक्षस्थिते चंद्रे कार्य स्यादमृतोपमम् । मृतपक्षे मृतं ज्ञेयं यतश्चंद्रबले बलम् ॥' इति । अत्र खरोदयादियुद्धग्रंथेषु षडंगराहुदशांगराहुनक्षत्रराहुचरणराहुफलान्यभिहितानि, तानि ग्रंथका ग्रंथभूयस्त्वभयान्नोक्तानीति नास्माभिर्विविच्यंते, शुश्रूषुभिश्च तत एवावधार्याणीत्यलं पल्लवितेन ॥ १५ ॥
अथ सफलमकुलकुलाकुलचक्रं युद्धयात्रायां वसंततिलकाशार्दूलविक्रीडि-. ताभ्यामाह
खात्यंतकाहिवसुपौष्णकरानुराधा
दित्यध्रुवाणि विषमास्तिथयोऽकुलाः स्युः। सूर्यदुमंदगुरवश्च कुलाकुला ज्ञो
मूलांबुपेशविधिभं दशषइद्वितिथ्यः॥ १६ ॥ पूर्वाश्वीज्यमदुकर्णदहनद्वीशेंद्रचित्रास्तथा
शुक्रारौ कुलसंज्ञकाश्च तिथयोऽर्काप्टेंद्रवेदैर्मिताः । .१ अत्रापि 'यायींदुः स्थितिमान् रविः' इत्यादि चतुर्थचरणे।
--