________________
पथिराहुचक्र] यात्राप्रकरणम् ११। यायी स्यादकुले जयी च समरे स्थायी च तद्वत्कुले
संधिः स्यादुभयोः कुलाकुलगणे भूमीशयोर्युध्यतोः॥१७॥ खातीति । पूर्वेति । स्वाती प्रसिद्धा, अंतकं भरणी, अहिराश्लेषा, वसुधनिष्ठा, पोष्णं रेवती, करो हस्तः, अनुराधा, आदित्यं पुनर्वसु, ध्रुवाणि रोहिण्युत्तरात्रयं च, एतानि द्वादशभानि; विषमास्तिथयः प्रतिपत्तृतीयापंचमीसप्तमीनवम्येकादशीत्रयोदशीपंचदश्य इत्यष्टौ तिथयः, वाराः सूर्येदुमंदगुरवः, मंदः शनिः, चत्वारो वाराः; एतानि नक्षत्राणि तिथयो वाराश्च प्रत्येकमकुलसंज्ञका स्युः । अथ शो बुधवार एकः, मूलं प्रसिद्धं, अंबुपः शततारका, ईश आर्द्रा, विधिभमभिजित् , एतानि चत्वारि भानि; दशषदद्वितिथ्यः दशमीषष्ठीद्वितीयास्तिस्रस्तिथयश्व; एते पदार्थाः प्रत्येकं कुलाकुलसंज्ञकाः स्युः। अथ पूर्वास्तिस्रः अश्विनावश्विनी, इज्यः पुष्यः, मघा, इंदुम॒गः, कर्णः श्रवणः, दहनः कृत्तिका, द्वीशं विशाखा, इंद्रो ज्येष्ठा, चित्रा प्रसिद्धा, एतानि द्वादशभानि; शुक्रारौ शुक्रमंगलवारो, अर्केगवेदैर्मिताः द्वादशीचतुर्दशीचतुर्थीसंज्ञास्तिस्रस्तिथयः; एते प्रत्येकं कुलसंज्ञकाः स्युः। यदुक्तं स्वरोदये-'द्वितीया दशमी षष्ठी कुलाकुलमुदाहृताः। विषमा अकुलाः सर्वाः शेषाश्च तिथयः कुलाः। रविश्चंद्रो गुरुः सौरिश्चत्वारो ह्यकुला मताः। भौमशुक्रौ कुलाख्यौ च बुधवारः कुलाकुलः ॥ वारुणाभिजिन्मूलं कुलाकुलमुदीरितं । कुलानि मास(स्य?)धिष्ण्यानि शेषभान्यकुलानि तु ॥' अस्य फलमाह-यायीति । अकुलसंज्ञके तिथिवारनक्षत्राणां गणे समरे युद्धप्रारंभे सति यायी राजा जयी स्यात् । यदि कुलसंज्ञके तिथिनक्षत्रवारगणे सति समरे स्थायी राजा तद्वजयी जययुक्तः स्यात् । कुलाकुलसंज्ञके तिथिवारनक्षत्रगणे युद्ध्यतोयुद्धं कुर्वतोभूमीशयो राज्ञोरुभयोः परस्परं संधिः प्रीतिः स्यात् । उक्तं च स्वरोदये-तिथौ वारे च नक्षत्रे अकुले यायिनो जयः। कुलाख्ये स्थायिनो ज्ञेयः संधिश्चैव कुलाकुले ॥' इति । वसिष्ठेन तु फलांतरमप्युक्तम्-'कुलभेषु च ये जातास्ते मनुजा संभवंति कुलमुख्याः । उपकुलभे परविभवं भोक्तारस्त्वन्यभेषु सामान्याः' इति । एतत्तुल्यन्यायत्वाद्वारेषु तिथिष्वपि ध्येयम् ॥ १७ ॥
अथ पथिराहुचक्रं स्रग्धरयाहस्युर्धर्मे दस्रपुष्योरगवसुजलपद्वीशमैत्राण्यथार्थे
याम्याजांघींद्रकर्णादितिपितृपवनोडून्यथो भानि कामे । वह्वया बुध्न्यचित्रानिक्रतिविधिभगाख्यानि मोक्षेऽथ रोहि
ण्यार्यम्णाप्येंदुविश्वांतिमभदिनकराणि पथ्यादिराहौ॥१८॥ स्युरिति ॥ अश्विनीपुष्याश्लेषाधनिष्ठाशततारकाविशाखानुराधाख्यानि भानि धर्मे धर्मस्थाने लेख्यानि स्युः । अथ भरणीपूर्वाभाद्रपदाज्येष्ठाश्रवणपुन