________________
मुहूर्तचिंतामणिः । [पथिराहुचक्रफलं र्वसुमधास्वात्याख्यान्युडूनि अर्थ लेख्यानि स्युः । अथ कृत्तिकाोत्तराभाद्रपदाचित्रामूलाभिजित्पूर्वाफाल्गुनीनक्षत्राणि कामे लेख्यानि स्युः । अथ रोहिण्युत्तराफाल्गुनीपूर्वाषाढामृगोत्तराषाढारेवतीहस्ताख्यानि भानि मोक्षमार्गे लेख्यानि स्युः। पथिशब्द आदिर्यस्य स तादृशे राही पथिराहावित्यर्थः । चक्रे इति विशेष्यमध्याहार्यम् । चक्रन्यासो यथा । तदुक्तं राजविजये-'ऊर्ध्वगाः पंच रेखाः स्युस्तिर्यरेखास्तथा नव । द्वात्रिंशत्कोष्टकैश्चक्रं पथिराहुः प्रकीर्तितः ॥ धर्मार्थकाममोक्षाः
पथिराहुचक्रम् स्युरूध्वंकोष्टचतुष्टये । विन्यसेत्सर्पचलनादश्विन्यादीनि भान्यथ ॥' इति । सर्पचलनवद- | धर्मः अर्थः कामः मोक्षः नुलोमविलोमाभ्यां भानि लेख्यानीत्यर्थः । तदेतत्स्पष्टमुक्तमादियामले-'अश्विन्यादीनि चत्वारि गणयेत्सप्तधा पुनः । अनुलोमविलोमाभ्यां साभिजिति पुनःपुनः ॥ धर्मार्थकाममोक्षाख्या मार्गाश्चत्वार एव च ॥' इति । अत्र ग्रंथकृत्पद्ये गौरवदर्शनात्पूर्वपक्षो जायते' तदुपपत्तिस्तत्समाधिश्च 'अंधाक्षं वसुपुष्य-' (२।२२) इत्यादिपद्यव्याख्याने तिष्ठति, सा तत एवावधार्या । अत एवोक्तमादियामले-'तिष्याश्वाहिवि. शाखाश्च मैत्रं शतभिषग्वसुः । एतानि सप्त
अभि उ ऋक्षाणि धर्ममार्गे नियोजयेत् ॥ अजपादमघाखातीयाम्यज्येष्ठाः पुनर्वसुः । श्रवणं 'सप्तताराश्च धनमार्गे प्रकीर्तिताः ॥ अहिर्बुभ्याभिजिन्मूलभगत्वाष्ट्राकृत्तिकाः । एतावत्यः सप्त ताराः काममार्गे व्यवस्थिताः ॥ विधींदुविश्वहस्ताश्च उत्तरावारिपौष्णकाः ॥ तारकाः सप्तसंख्याका मुक्तिमार्गे व्यवस्थिताः ॥' इति । विधिः रोहिणी ॥ १८॥ अथैवं पथिराहुचक्रमुक्त्वा तत्फलं स्रग्विणीछंदसाह
धर्मगे भास्करे वित्तमोक्षे शशी
वित्तगे धर्ममोक्षस्थितिः शस्यते । कामगे धर्ममोक्षार्थगः शोभनो
मोक्षगे केवलं धर्मगः प्रोच्यते ॥ १९ ॥ धर्मग इति ॥ धर्ममार्गस्थिते भास्करे सूर्ये सति चेद्वित्तमोक्षगे अर्थमार्गे मोक्षमार्गे वा शशी स्यात्तदा शोभनश्चंद्रः । अथवा वित्तगे अर्थगे भास्करे