________________
तिथिचक्रम् ] यात्राप्रकरणम् ११। सति धर्ममार्गस्थितो मोक्षमार्गस्थितो वा चेच्छशी स्यात्तदा शोभनः । अथवा कामगे काममार्गस्थिते भास्करे धर्ममार्गगो मोक्षमार्गगो वा अर्थमार्गगो वा स्याचेच्छशी तदापि शुभः । अथवा मोक्षमार्गस्थिते भास्करे केवलं धर्ममार्गस्थितश्वेचंद्रः स्यात्तदापि शुभः । अर्थात् विपरीतावस्थितौ द्वयोः सूर्याचंद्रमसोरशुभत्वं स्यात् । उक्तं चादियामले-'सूर्ये धर्मगते चंद्रो धने मोक्षे शुभप्रदः । सूर्ये धनगते वित्तमोक्षमार्गे शुभः शशी ॥ कामेऽर्के धर्ममोक्षार्थसंस्थश्चंद्रो जयप्रदः। मोक्षेऽर्के धर्मगश्चंद्रः शुभोऽन्यत्र न शोभनः ॥' इति । राजविजये तु शुभाशुभाख्यं फलद्वयमप्यनिहितम्'धर्ममार्गगते सूर्य चंद्रे तत्रैव संस्थिते । समं युद्धं भवेत्तत्र किंचिद्यायी जयी भवेत् ॥ धर्मे सूर्योऽर्थगश्चंद्रो यायिनो विजयप्रदौ । धर्मेऽर्कः कामगश्चंद्रो विरोधो बांधवैः सह ॥ धर्मेऽर्को मोक्षगश्चंद्रः शुभयोगेन लाभकृत् । अर्थेऽर्को धर्मगश्चंद्रः शुभयुक्तश्च लाभकृत् ॥ अर्थस्थौ चंद्रसूर्यौ च यायिनां भंगदायको । अर्थेऽर्कः कामगश्चंद्रो निंद्यौ यात्रासु कर्मसु॥ अर्थेऽर्को मोक्षगश्चंद्रः शुभयुग्भूमिलाभकृत् । कामेऽर्को धर्मगश्चंद्रः शुभयुग्रनलाभकृत् ॥कामेऽर्कोऽर्थगतश्चंद्रो बुधो जीवगतो यदि । श्रीलाभदौ समाख्यातौ भृगुणाथ समन्वितौ ॥ चंद्राकौं कामगौ यत्र रिपुयोगादिदुःखदौ । कामेऽर्को मोक्षगश्चंद्रः शुभयुक्तोऽर्थलाभकृत् ॥ मोक्षेऽर्कश्चंद्रमा धर्म महालाभः शुभान्विंतः । मोक्षे सूर्योऽर्थगश्चंद्रस्तथा यात्रा न निष्फला । मोक्षेऽर्कः कामगश्चंद्रो यात्रा दुःखप्रदा भवेत् । चंद्राकौं मोक्षमार्गस्थौ घोरविघ्नप्रदायकौ ॥ यात्रादिसर्वकार्येषु चक्रमेतद्विलोकयेत् । पथिराहुरिति ज्ञेयः शुभाशुभफलप्रदः ॥' इति । अत एवास्य निष्कृष्टमर्थमाहुरस्मपितामहानंतचरणाः-'धर्मेऽर्को वित्तमोक्षेऽनो वित्तस्थे धर्ममोक्षगः। कामं धर्मार्थमोक्षेषु मोक्षे धर्मगतः शुभः ॥' इति ॥ इति पथिराहुचक्रम् ॥ १९ ॥ ___ अथावश्यकर्तव्यायां यात्रायां तिथौ दुष्टायां तिथिचक्रं शालिनीवृत्तचतुष्टयेनाहपौषे पक्षत्यादिका द्वादशैवं तिथ्यो माघादौ द्वितीयादिकास्ताः । कामात्तिस्रः स्युस्तृतीयादिवञ्च याने प्राच्यादौ फलं तत्र वक्ष्ये २० सौख्यं क्लेशो भीतिर्थागमश्च शून्यं नैःस्वं निःस्वता मिश्रता च । द्रव्यक्लेशो दुःखमिष्टाप्तिरों लाभः सौख्यं मंगलं वित्तलाभः २१ लाभो द्रव्याप्तिर्धनं सौख्यमुक्तं भीतिर्लाभो मृत्युरर्थागमश्च । लाभः कष्टं द्रव्यलाभः सुखं च कष्टं सौख्यं क्लेशलाभौ सुखं च २२ सौख्यं लाभः कार्यसिद्धिश्च कष्टं क्लेशः कष्टात्सिद्धिरों धनं च । मृत्युर्लाभो द्रव्यनाशश्च शून्यं शून्यं सौख्यं मृत्युरत्यंतकष्टम् २३ पौषे इति ॥ सौख्यमिति ॥ लाभ इति ॥ सौख्यमिति ॥ अत्र