________________
निर्गमप्रवेशदिनैक्ये विचारः] यात्राप्रकरणम् ११। न गच्छेत नावर्तेत गतोऽन्यथा ॥' इति । अत्र श्रीपतिवाक्ये 'सौदामिनी-' इत्यादिषु तात्कालिक एव निषेधः। आसप्तरात्रादिति तूत्तरार्धपठितेषूत्पातेष्वेव संबध्यत इत्याहुः । यदाह वसिष्ठः-'प्रयाणसमये यस्य विद्युनीहारवृष्टयः। अकालजा भवत्येते तदा भंगकरा नृणाम् ॥' इति । ननु देहलीदीपन्यायेनात्र पूर्वत्रापरत्र वा संबंधः स्यानोभयत्र । कथम्-'सकृदुच्चरितः शब्दः सकृदर्थप्रत्यायकः' इति न्यायेनैकत्र पूर्वत्रापरत्र वा संबंधः स्यानोभयत्र । न चावृत्त्या सेत्स्यतीति वाच्यम् । आवृत्तौ प्रमाणाभावात् गौरवापत्तेश्च । अत्रोच्यतेआसप्तरात्रादित्युभयत्रापि संबध्यते । 'ध्रुवमद्भुतेषु दिव्यांतरिक्षक्षितिजेषु चैवम्' इति समुच्चयद्योतकस्य चकारस्य स्पष्टानुवृत्तिसूचकस्य चैवंकारस्य करणात् । अत एव नारदोऽपि-'अकालजेषु नृपतिर्विद्युन्नीहारवृष्टिषु । उत्पा. तेषु त्रिविधेषु सप्तरानं नतु व्रजेत् ॥' इति दोषानुवादपूर्वकम् 'सप्तरानं नतु बजेत्' इति वाक्यांतेऽभिदधाति स्म। कश्यपोऽपि-'उत्पातेषु त्रिविधेषु तडिद्गर्जितवृष्टिषु । अकालजेष्वेषु सत्सु सप्तरात्रं नतु व्रजेत् ॥' इति । 'प्रयाणसमये यस्य' इति वसिष्टवाक्यं प्रयाणदिवसोत्पन्नस्य विद्युदादेर्दोषातिशयसूचनार्थम् । तेन तस्मिन् दिने नैव गच्छेदित्यर्थः । वृष्ट्यर्थ स्वयमेवाग्रे वक्ष्यति 'यदि मास्सु' (११।९५) इति ॥ ७६ ॥
अथ राज्ञ एकदिनसाध्ये एकसानगरानगरांतरगमने चिकीर्षिते दिक्शूलत्वाद्यभावं वंशस्थवृत्तेनाह
महीपतेरेकदिने पुरात्पुरे यदा भवेतां गमनप्रवेशको । भवारशूलप्रतिशुक्रयोगिनीर्विचारयेनैव कदापि पंडितः ७७ महीपतेरिति ॥ यथा वाराणसीनगराचरणाद्विगमनमेकदिनसाध्यम् । तद्वदन्यत्रापि महीपते राज्ञः पुरादेकसानगरात्पुरे नगरांतरे एकदिने एव गमनप्रवेशको स्याताम् । कोऽर्थः ? यस्मिन्नेव दिने एकस्मात्पुरानमनं तस्मिन् दिने एव च नगरांतरे प्रवेशः। तत्र यथाकथंचित्पंचांगशुद्धिमालोच्य नक्षत्रशूलं वारशूलं प्रतिशुक्रश्च योगिन्यश्च एतान् दोषान् पंडितः कदापि नैव विचारयेत् । उक्तं च भृगुणा-'एकस्मिन्नपि दिवसे यदि चेद्गमनं प्रवेशश्च । प्रतिशुक्रवारशूलं न चिंतयेद्योगिनीपूर्वम् ॥' इति । यदा तु दिनभेदेन यात्राप्रवेशौ भवतस्तदा यात्रायां प्रतिशुक्रवारशूलादिविचारोऽस्त्येव ॥ ७७ ॥ __ अथैकदिनसाध्ये निर्गमप्रवेशरूपे कार्ये चिकीर्षिते किं विचार्यमित्याशंक्योत्तरमार्यावृत्तेनाह
यद्यकस्मिन्दिवसे महीपतेर्निर्गमप्रवेशौ स्तः। तर्हि विचार्यः सुधिया प्रवेशकालो न यात्रिकस्तत्र ॥७८॥ यदीति ॥ स्पष्टार्थ पद्यम् । प्रवेशकालो गृहप्रवेशप्रकरणे वक्ष्यते । यात्रिको यात्रासंबंधी कालः । तत्र नगरानगरांतरगमने। यदाह गर्ग:-'प्रवेशनिर्गमौ