________________
३८६
मुहूर्तचिंतामणिः । [यात्रायामतिनिषिद्धयोगाः लब्ध्वा रिपोः पुरम् । विजिगीषुर्यो व्रजति विजयश्रीस्तमेस्यलम् ॥' इति । निमित्तम्-अंगस्फुरणादि । श्रीपतिरपि-'शकुननिमित्तमनोभिरनिधैरुदयविशुद्धिमिह प्रतिपच । रिपुविषयं प्रति यो विजिगीषुव्रजति तमेस्यचिराद्विजयश्रीः ॥' इति । यदा तु लग्नादिबले सत्यपि निंद्यानि चेच्छकुनादीनि स्युस्तदा यात्रा निषिद्धैव । यदाह वसिष्ठः-शुभानि निमित्तानि उत्पातशकुनानि च । यात्राकाले नृणां तेषां निधनायाधनाय वा ॥' इति । यदा तु दैवाच्छकुनलमादीन्यनिधानि लब्धानि, मनोविशुद्धिश्च नास्त्येव, तत्र कस्य प्राबल्यमित्यत आह-अधिकेति । शकुनादितः सकाशाच्चेतोविशुद्धिरधिका तां चेतोविशुद्धिं विना नेयात् न गच्छेत् । यदाह कश्यपः-'निमित्तशकुनादिभ्यः प्रधानो हि मनोजयः । तस्माधियासतां नृणां फलसिद्धिर्मनोजयात् ॥' इति । श्रीपतिश्व-निमित्तराशिरेकतो नृणां मनस्तथैकतः । अथो यियासतां बुधैर्मनोविशुद्धिरिष्यते ॥' इति ॥ ७५ ॥
अथ शुभसूचकसकलपदार्थसमवायेऽपि यात्रायामवश्यनिषिद्धनिमित्तान्याहव्रतबंधनदैवतप्रतिष्ठाकरपीडोत्सवसूतकासमाप्तौ । न कदापि चलेदकालविद्युद्धनवर्षातुहिनेऽपि सप्तरात्रम् ॥ ७६॥
व्रतबंधनेति ॥ अस्य विषमछंदसि वसंतमालिकाछंदः । तल्लक्षणं च'विषमे ससजा गुरू समे चेत्सभरा यश्च वसंतमालिका सा।' व्रतबंधनं यज्ञोपवीतं, दैवतप्रतिष्ठा प्रसिद्धा, करपीडा विवाहः, उत्सवो होलिकादिः, सूतकं द्विविध-जननसूतकं मरणसूतकं च; एतेषां पदार्थानां शास्त्रोक्तयावदिनसमाप्यानामसमाप्तौ समाप्तिं विना कदापि नैव चलेगच्छेत् । यदाह नारदः'उत्सवोपनयोद्वाहप्रतिष्ठाशौचसूतके । असमाते न कुर्वीत यात्रा तत्र जिजीविषुः॥' इति । आशौचं मरणाशौचं । सूतकं जननाशौचम् । अकालेति। विधुत्प्रसिद्धा, घनो घनगर्जितं, वर्षा वृष्टिः, तुहिनं नीहारः; एषु पदार्थेष्वकालजेषु सत्सु सप्तरानं दिवससप्तकं न चलेत् । यदाह राजमार्तडः-पौषादिचतुरो मासान्प्राप्ता वृष्टिरकालजा । व्रतं यात्रादिकं चैव वर्जयेत्सप्तवासरान् ॥' श्रीपतिः-'वृष्टिरकालप्रभवा चतुर्षु मासेषु पौषपूर्वेषु । आसप्ताहं त्याज्यं व्रतं च यात्रादिकं तत्र ॥' इति । नारदोऽपि-'अकालजेषु नृपतिर्विद्युद्गर्जितवृष्टिषु । उत्पातेषु त्रिविधेषु सप्तरात्रं नतु ब्रजेत् ॥' इति । त्रिविधत्वं दिव्यांतरिक्षभौमभेदेन । यदाह श्रीपतिः-'सौदामिनीवर्षणगर्जितेषु नाकालजेषु प्रवसेन्नरेंद्रः। आसप्तरात्राद्ध्वमद्भुतेषु दिव्यांतरिक्षक्षितिजेषु चैवम् ॥' इति । ग्रंथकात्रोत्पातग्रहणं न कृतम् । 'उत्पातमहतोऽयहांश्च' (१।३२) इति शुभाशुभप्रकरणेऽभिहितत्वात् । अत्रोत्पाताः केतुव्यतिरिक्ता द्रष्टव्याः। केतौ तु यावद्दर्शनं गमननिषेधः। यदाह ऋषिपुत्र:-'यावदभ्युदितः केतुरस्तमेवोपगच्छति । तावद्राजा