________________
चेतोविशुद्धिरप्यावश्यिकी ] यात्राप्रकरणम् ११ । चत्वारो भेदाः, एवं पंचभिरपि भेदैरित्येवं ।।। चत्वारो जाताः सर्वे चतुर्विशतिः २४ । बु. शु.बु. . शु. शु.. अत्रायं विचारः-बुधश्चतुर्थे उत्तरस्यां बु. शु... बु. बु. बु. शु. दिशि लालाटिकः केंद्गतत्वाद्योगकर्ताच, 3.3.3. शु. . . बु.। तत्र किं योगः प्रबलः, उत लालाटिक इति ? तत्र सामान्यविशेषभावेन लालाटिकयोग एवं प्रबलः। एवं सप्तमश्च शुक्रो लग्नभंगी प्रबल एव । तथैवाधियोगे योगाधियोगे चोक्तहेतुः । तथैव बुधशुक्रयो लाटिकलग्नभंगिदोषौ प्रबलाविति बालानामप्येतत्सुबोधम् । अत्र वसिष्ठकश्यपनारदावृषिभिर्वराहादिभिश्च भूयांसि योगयात्रालग्नान्युक्तानि तानि तद्वंथेभ्य एवावधार्याणि, ग्रंथाधिक्यभयादत्र ग्रंथकृता नोक्तानि ॥ ७३ ॥
अथ विजयादशमीसंज्ञकं सिद्धमुहूर्तमाहइषमासि सिता दशमी विजया शुभकर्मसु सिद्धिकरी कथिता । श्रवणक्षयुता सुतरां शुभदा नृपतेस्तु गमे जयसंधिकरी ॥७४॥
इषमासीति ॥ अस्य जगत्यां तोटकाख्यं छंदः । तल्लक्षणम्-इह तोटकमबुधिसैः प्रथितं ।' स्पष्टार्थ पद्यम् । यदाह नारदः-'वलक्षपक्षदशमी आश्विने विजयाभिधा । विजयस्तत्र यातॄणां संधिर्वा न पराजयः ॥' इति । कश्यपोऽपि-'मासीषे शुक्लदशमी सर्वदा विजयाभिधा । जयप्रदा सा यातॄणां संधिर्वा न पराजयः ॥' इति । वसिष्ठेन तु श्रवणसाहित्येऽतिप्राशस्त्यमुक्तम् । 'श्रवणक्षं यदा काले सा तिथिर्विजयाभिधा । विजयादशमी तत्र सर्वकार्येष्वनिंदिता ॥ यात्रायां जयदा राज्ञां संधिं वापि प्रयच्छति ॥' इति । आश्वयुक्शुक्ले इत्यनुवर्तते । काले कालस्वामिकायां तिथौ दशम्याम् ॥ ७४ ॥ . अथैवं महतायासेन विचारिते पंचांगशुद्धिसहिते लग्ने सत्यपि मनोविशुद्धौ वक्ष्यमाणशकुनाद्यावश्यकत्वं तत्रापि प्रबलदुर्बलभावं च वसंततिलकाछंदसाह
चेतोनिमित्तशकुनैरतिसुप्रशस्त
त्विा विलग्नबलमुर्त्यधिपः प्रयाति । सिद्धिर्भवेदथ पुनः शकुनादितोऽपि
चेतोविशुद्धिरधिका न च तां विनेयात् ॥ ७५ ॥ चेत इति ॥ अथशब्दो मंगलार्थ आनंतर्यार्थश्च । चेतोऽन्तःकरणं, निमित्तमंगस्फुरणादि, शकुनानि वक्ष्यमाणानि; एतैः खलु निश्चयेन सुप्रशस्तैः सद्भिः कृत्वा तथा समीचीनं विलग्नबलमपि ज्ञात्वा उर्व्यधिपो राजा प्रयाति तथा सिद्धिांछितकार्यसिद्धिर्भवति । यदाह नारदः-'मनोनिमित्तशकुनैर्लग्नं
३३ मु० चि०