________________
३८४
मुहूर्तचिंतामणिः । [स्थानत्रयाक्रांतमहत्रयभेदाः वजन् राजा क्षेमं कुशलं लभते कुशलेन गतागतं करोतीत्यर्थः । अथाधियोगे राजा वजन क्षेमं तथा रिपूणां शत्रूणां वधं च लभते । अथो योगाधियोगे व्रजन् राजा क्षेम यशोऽवनीश्चकाराच्छत्रुवधं च लभते॥यदाह नारदः-'केंद्रत्रिकोणेष्वेकेन योगः शुक्रज्ञसूरिषु । अधियोगः स चेद्वाभ्यां त्रिभियोगाधियोगकः ॥ योगे यियासतां क्षेममधियोगो जयावहः । योगाधियोगे क्षेमायुविजयार्थविभूतयः ॥' इति । वराहोऽपि-'एकेन वा बुधबृहस्पतिभार्गवाणां योगो भवेन्नवमपंचमकंटकेषु । द्वाभ्यां वदंति मुनयस्त्वधियोगमेषां योगाधियोगमपरे त्रिभिरुद्दिशति ॥ योगेन ये नृपतयोऽरिपुरं व्रति क्षेमेण ते गमनमागमनं च कुर्युः । क्षेमं यशोरिपुविनाशमथाधियोगे योगाधियोगगमनेन जयेद्धरित्रीम् ॥' इति । अत्र योगस्याधियोगस्य च भेदविचारः । तत्र योगस्याष्टादश १८ भेदाः। तथा हि-त्रयो ग्रहाः, षट् स्थानानि, तत्रैकस्य तु तनुस्थानषट्कस्थित्या षदभेदाः,एवं गुरोः षद,शुक्रस्यापि षद,एवं योगेऽष्टादश भेदाः।अथाधियोगस्याष्टोत्तरशतभेदाः। यथा-ज्ञेज्यशुक्राणां द्वयोर्द्वयोर्योगे त्रयो भेदाः, बुधगुरू बुधशुक्रो गुरुशुक्रौ तत्र बुधगुोरेकैकस्थानस्थित्या षट् भेदाः, स्थानभेदे तु बुधः प्रथमे स्थाने गुरुर्द्वितीयादिषु पंचसु स्थानेषु स्थितस्तदा पंच, एवं गुरुः प्रथमे स्थाने बुधो द्वितीयादिषु पंचसु तत्रापि पंचैव,अथ बुधो द्वितीये गुरुस्तृतीयादिषु चतुर्षु तदा चत्वारो भेदाः, एवं वैपरीत्येऽपि चत्वारः, तथा बुधस्तृतीये गुरुश्चतुर्थादिषु तदा त्रयः, एवं वैपरीत्येऽपि त्रयः, तथा बुधश्चतुर्थे गुरुः पंचमे षष्ठे वा तदा द्वौ भेदौ, एवं वैपरीत्येऽपि द्वौ, तथा बुधः पंचमे गुरुः षष्ठे तदैको भेदः एवं वैपरीत्येऽप्येकः, एवं बुधगुर्वोः सर्वे मिलिताः षदत्रिंशत् ३६ भेदाः स्युः । अनेनैव प्रकारेण बुधशुक्रयोः पत्रिंशद्भेदाः। एवं गुरुशुक्रयोरपि तावंत एव । मिलित्वाऽष्टोत्तरशतं १०८ भेदा भवेयुः । अथ योगाधियोगभेदाः । तथा हि-ज्ञेज्यशुक्राणां संघेनैकैकस्थानस्थित्या षद भेदाः भवंति । अथ स्थानभेदेनोच्यते भेदाः । तत्र द्वयोः समुदाय एको भिन्नश्चैवं ग्रहाणां त्रयो भेदाः स्युः । यथा हि संघः प्रथमस्थाने एको द्वितीयादिषु तदापि पंचैव । अथ द्विग्रहसंघो द्वितीये एकः, तृतीयादिषु चतुर्यु चत्वारो भेदाः,एवं भेदवैपरीत्येऽपि चत्वारः, तथा द्विसंघस्तृतीये एकः, चतुर्थादिषु तदा त्रयः,तथा द्विग्रहसंघश्चतुर्थे एकः,पंचमे षष्ठे वा तदा द्वौ भेदौ। एवं वैपरीत्येऽपि द्वौ । तथा द्विग्रहसंघः पंचमे एकः षष्ठे तदैको भेदः वैपरीत्येऽप्येक एव । एवं बुधगुरुसमुदायस्य शुक्रसहितस्य ३० त्रिंशद्भेदाः; एवमेव बुधशुक्रसंघस्य गुरुसहितस्य त्रिंशत् ३०, तथा गुरुशुक्रसंघस्य बुधसहितस्य तावंत एव ३०, सर्वभेदैक्यं ९० । अथ त्रयाणां ग्रहाणां स्थानत्रयाक्रांतत्वेन भेदा उच्यते । तत्र बुधगुरुशुक्राणामन्योन्यपरिवर्तनात्षदभेदा भवंति । यथा एतदुत्पत्तिप्रकारो भास्कराचार्येण 'अंकपाशगणितस्थानांतमेकादिचांकघातः' इत्यादिनाभ्यधायि । तत्र त्रिभिर्घहैः षण्णां स्थानानां मध्ये निरंतरस्थानत्रयाक्रांतत्वेन