________________
योगयात्रालमानि ] यात्राप्रकरणम् ११ ।
३०३ श्रमणका बौद्धसंन्यासिनस्तेषु वैदिकानां तीर्थगतेषु यथा तीर्थानां पुण्यनाशः ॥ ७१॥ अथान्यद्योगयात्रालग्नद्वयमाहसहजे कुजो निधनगश्च भार्गवो
मदने बुधो रविररौ तनौ गुरुः । अथ चेत्स्युरिज्यसितभानवो जल
त्रिगताहि सौरिरुधिरौ रिपुस्थितौ ॥ ७२ ॥ सहज इति ॥ अस्यातिजगत्यां मंजुभाषिणीछंदः । तल्लक्षणमुक्तं प्राक् । यथा तृतीये मंगलः स्यात् भष्टमे शुक्रः सप्तमे बुधः षष्ठे सूर्यः लग्ने गुरुः एवंविधे योगे गंतू राज्ञो विजय एव । यदाह वराहः-'त्रिनिधनतनुसप्तमारिसंस्थाः कुजसितजीवबुधा रविश्च यस्य । खलजनजनितेव लोकयात्रा न भवति तस्य चिराय शत्रुसेना ॥' इति । अयमेको योगः ॥ अथेति योगांतरमुच्यते-इज्यसितभानवो बृहस्पतिशुक्रसूर्याः जलनिगताश्चतुर्थतृतीयस्थानगताश्चेत्स्युः सौरिरुधिरौ शनिमंगलौ रिपुस्थितौ षष्ठस्थितौ भवेतां एवंविधे विशिष्टे योगे हि निश्चितं राज्ञो जयः स्यात् । यदाह वराहः-'कुजरविजयुतेऽरिभे गतानां जलसहजोपगतैः सितार्कजीवैः । रिपुबलमुपयाति नाशमाशु श्रुतमधनस्य कुटुंबचिंतयेव ॥' इति ॥ ७२ ॥ अथ नामविशेषपुरस्कारेण योगयात्रालग्नान्याहएको क्षेज्यसितेषु पंचमतप केंद्रेषु योगस्तथा
द्वौ चेत्तेष्वधियोग एषु सकला योगाधियोगः स्मृतः । योगे क्षेममथाधियोगगमने क्षेमं रिपुणां वधं
चाथो क्षेमयशोवनीश्च लभते योगाधियोगे व्रजन् ॥७३॥ एक इति ॥ अस्यातिश्त्यां शार्दूलविक्रीडितं छंदः । तल्लक्षणं च 'सूर्याश्वमसजस्तताःसगुरवः शार्दूलविक्रीडितम्'सूर्याश्चैदशभिः सप्तभिश्चाक्षरैयतिः। ज्ञेज्यसितेषु बुधबृहस्पतिशुक्रेष्वेकोऽपि बुधो वा गुरुर्वा शुक्रो वा चेत्पंचमतपःकेंद्रेषु स्यात् पंचमे वा स्थाने तपसि नवमे वा केंद्रे प्रथमचतुर्थसप्तमदशमानामन्यतमे स्थाने वा स्यात् तदा योगाख्यो योगः । तथा तेषु शेज्यशुक्रेषु द्वौ बुधगुरू बुधशुक्रौ वा गुरुशुक्रौ वा चेत्पंचमतपःकेंद्राणामन्यतमस्थाने स्थानभेदेनैक्येन वा स्थितौ स्यातां तदाअधियोगाख्यो योगः। तथा सकला ज्ञेज्यसिता एषु पंचमतपःकेंद्राणामन्यतमस्थानेषु स्थानभेदेन स्थानैक्येन वा स्थिताश्वेत्स्युस्तदा योगाधियोगाख्यो योगः । अथ फलमाह-योग इति । योगे