________________
૨૮૨
मुहूर्तचिंतामणिः । [योगमात्रालमानि 'बुधभार्गवमध्यगते हिमगौ हिबुकोपगते च बुधः प्रवसेत् । पुरुहूतदिशं यदि वांतकृतः पुरुहूतयमप्रतिमो भवति ॥' इति । ननु चंद्रस्य बुधभार्गवमध्यवर्तित्वं किं भिन्नराशिस्थितत्वे सत्युतैकराशिस्थितत्वे सति विवक्षितम् ? तत्र भिन्नराशिकृतमध्यवर्तित्वे विवक्षिते सत्ययमर्थः स्यात् बुधभार्गवयोरन्यतरः तृतीयस्थाने परः पंचमे चंद्रश्चतुर्थे इति । एकराशिस्थितत्वे त्वंशकृतं पौर्वापर्यम्। चतुर्थे स्थाने बुधः शुक्रो वा स्वल्पांशः स्यात् । तयोरन्यतरोतिबईशस्तत्रैव स्थाने चंद्रस्तत्रैवांशैर्मध्यवर्ती स्यात् । यथा बुधो राश्यादिः ३।५।१० चंद्रः ३।१५।२० शुक्रः ३।२५।३० एवं पक्षद्वयसंभवे किं युक्तमिति? उच्यते-यद्यपि वराहवाक्ये संदेहस्तथापि बादरायणवाक्यादेकराशिव्यवधानकृतमेव मध्यवर्तित्वं विवक्षितम् । यदाह बादरायणः-'पुत्रांबुदुश्चिक्यगतैः क्रमेण दुश्चिक्यतोयात्मजसंस्थितैर्वा । बुधेदुशुक्रैर्यमशक्रनाथकाष्ठां प्रयातस्य जयः प्रदिष्टः ॥' इति । काष्ठां दिशम् । एतञ्चोपलक्षणं तेन लग्नस्थचंद्रः पार्श्ववर्तिस्थानद्वयवतिनोर्बुधशुक्रयोर्मध्यवर्ती चेत्स्यात्तदा सोऽपि राज्ञो विजयद इति । यदाह गुरुः-'चंद्रे ज्ञसितयोर्मध्ये हिबुके लग्नगेऽपि वा। प्रयाता श्रियमामोति जित्वा शत्रून्महीमपि ॥' इति ॥ ७० ॥ अथान्यद्योगयात्रालग्नद्वयमाह
सितजीवभौमबुधभानुतनूजा
स्तनुमन्मथारिहिबुकत्रिगृहे चेत् । क्रमतोऽरिसोदरखशात्रवहोरा
हिबुकायगैर्गुरुदिनेऽखिलखेटेः ॥ ७१॥ सितजीवेति ॥ अस्य गाथाछंदः प्राग्वत्स्वमते ग्रंथांतरे च । लग्ने शुक्रः स्थात् , सप्तमे जीवः, षष्ठे भौमः, चतुर्थे बुधः, तृतीये शनिः, एवंविधे विशिष्टे योगे राज्ञो विजय एव । यदाह वराहः-'यस्योदयास्तारिचतुस्त्रिसंस्थाः शुक्रांगिरोऽङ्गारकसौम्यसौराः। द्विषद्बलस्त्रीवदनानि तस्य कांतानि कांता न विलोकयति ॥' इति । नारदोऽपि-शुक्रायज्ञार्किभौमेषु लग्नास्तांबुत्रिशत्रुषु । गतस्याने घरिचमूरनौ लाक्षेव लीयते ॥' श्रीपतिरपि-'यमशशुक्रेज्यमहीसुतेषु त्रिबंधुलग्नास्तरिपुस्थितेषु । विलीयते वैरिचमू रणाग्रे लाक्षेव वह्नौ नृपतेर्गतस्य ॥' इति । अयमेको योगः ॥ अथान्यः । गुरुदिने बृहस्पतिवासरे अखिलखेटैः समस्तग्रहैः सूर्यादिभिः सप्तभिः क्रमतोऽर्यादिस्थानस्थितैः सद्भिरुपलक्षिते सति; यथा-षष्ठे सूर्यः, तृतीये चंद्रः, दशमे मंगलः, षष्ठे बुधः, लग्ने गुरुः, चतुर्थे शुक्रः, एकादशे शनिरिति एवंविधे योगे राज्ञो विजय एव । यदाह वराहः-'सूर्यादयोऽरिसहजांबरशत्रुलग्नबंधवायगाः सुरगुरोर्दिवसश्च यस्य । यानेऽरिसैन्यमुपगच्छति तस्य नाशं मीमांसकश्रमणकेष्विव तीर्थपुण्यम् ॥' इति । मीमांसाविचारस्तन्मात्रनिष्ठामीमांसका नतु वेदार्थविदः एवंविधा ये