________________
योगयात्रालमानि यात्राप्रकरणम् ११।
३०१ यातुर्भयं न भवति प्रतरेत्समुद्रं यद्यश्मनापि किमुतारिसमागमेषु ॥' इति ॥ ६८॥
अथान्यद्योगयात्रालग्नद्वयमाहलग्ने यदि जीवः पापा यदि लाभे कर्मण्यपि चेद्राज्याधिगमः स्यात् घूने बुधशुक्रौ चंद्रो हिबुके वा तद्वत्फलमुक्तं सर्वैर्मुनिवर्यैः ॥६९॥
लग्न इति ॥ अस्य जगत्यां मणिमालाछंदः । तल्लक्षणं च-त्यौ त्यौ मणिमाला छिन्ना गुहवः' तगणयगणतगणयगणाः गुहः कार्तिकेयस्तस्य वाणि मुखानि पद तैः षभिरक्षरैश्छिन्ना यतिसहिता। लग्ने गुरुयदि स्यात् अथवा लाभे एकादशस्थाने कर्मणि दशमस्थाने पापग्रहाः स्युस्तदा राज्यप्राप्तिर्भवेत् । उक्तंच वराहेण-'होराश्रिते देवगुरौ प्रयाता क्रूरग्रहैः कर्मणि लाभगैर्वा । कृत्वा रिपूणां क्षयमक्षतांगः क्षयं क्षितीशोऽक्षयकोशमेति ॥' इति । क्षितीशो राजा रिपूणां क्षयं नाशं कृत्वाऽक्षतांगः क्षतरहितशरीरः सन् अक्षयकोशमक्षीणकोशं क्षयं स्वगृहमेति आगच्छतीत्यर्थः । अथवा चूने सप्तमे बुधशुक्रौ स्यातां चंद्रश्च हिबुके चतुर्थस्थाने स्यादेवंविधे योगे सर्वैर्मुनिवर्यैस्तद्वत्फलमुक्तं राज्याधिगमः स्यात् । तथा च श्रीपतिः-'शशिनि चतुर्थे सविदि सितेऽस्ते जयति गतोऽरीन्हरिरिव युद्धे' इति । वराहोऽपि-'शशिनि चतुर्थगृहं समुपेते बुधसहिते च तथा भृगुपुत्रे । गमनमवाप्य पतिर्मनुजानां जयति रिपून्समरेण विनैव ॥' इति ॥ ६९ ॥
अथान्ययोगत्रयमाहरिपुतनुनिधने शुक्रजीवेंदवो ह्यथ बुधभृगुजौ तुर्यगेहं स्थितौ । मदनभवनगश्चंद्रमा वांबुगः शशिसुतभृगुजांतर्गतश्चंद्रमाः॥७॥
रिपुतनुनिधने इति ॥ अस्यातिजगत्यां चंद्रिकाछंदः । तल्लक्षणं च 'ननततगुरुभिश्चंद्रिकाऽश्वर्तुभिः' सप्तभिः षड्भिश्चाक्षरैर्यतिः । रिप्विति । अत्र स्थानसाम्यानहसाम्याच्च यथासंख्यं ज्ञेयम् । यथा रिपौ षष्ठे शुक्रः तनौ जीवः निधने अष्टमे इंदुश्चंद्र एवंविधे विशिष्टे योगे राज्ञो विजयः स्यादित्यर्थः। यदाह वराहः-'गुरौ विलग्ने भृगुजेऽरिसंस्थे चंद्रेऽष्टमे हंति गतोऽरिसेनाम् । वृष्टिं यथा दक्षिणमार्गचारी वृद्धो यथा हस्वतनुश्च शुक्रः॥' इति । अयं प्रथमो योगः ॥ अथ द्वितीययोगः । अथ बुधभृगुजौ तुर्यगेहं चतुर्थस्थानं तत्र स्थितौ चेत्स्यातां चंद्रमा मदनभवनगः सप्तमस्थानस्थितश्चेत्स्यात्तदैवंविधेऽपि योगे राज्ञो विजयः । यदाह वराहः-'सितेंदुजौ चतुर्थगौ निशाकरश्च सप्तमे । यदा तदा गतो नृपः प्रशास्त्यरीन्विना रणम् ॥' इति । अथ तृतीयो योगः । अथवा चंद्रमा अंबुगश्चतुर्थस्थः सन् शशिसुतभृगुजयोर्बुधशुक्रयोरंतर्गतो मध्यवर्ती स्यात् , एवंविधे योगे गंतू राज्ञो विजय एव । यदाह वराहः