________________
मुहूर्तचिंतामणिः । [ योगयात्रालग्नानि
हिमकिरणसुत इति ॥ अस्य जगत्यां प्रमुदितवदनाछंदः । तलक्षणं च - ' प्रमुदितवदना भवेन्नौ ररौ' । बुधो बली संश्चेत्तनौ लग्ने स्यात् हि निश्चयेन बृहस्पतिश्चेत्केंद्वगतः प्रथमचतुर्थसप्तमदशमानामन्यतमस्थानस्थः यदि च निर्बलो नीचाद्यशुभाधिकारप्राप्त्या बलरहितः सन् चंद्रो द्वादशतृतीयषष्ठनवमानामन्यतमस्थानस्थस्तदैवंविधे योगे जिगमिषो राज्ञो विजय एव । यदाह वराहः – 'त्रिषण्णवांत्येष्वबलः शशांक श्चांद्विर्बली यस्य गुरुश्च केंद्रे । तस्यारियोषाभरणैः प्रियाणि प्रियाः प्रियाणां जनयति सैन्ये ॥' इति । तस्य सैन्ये प्रियाः सैनिका अरियोषाभरणानि बलादपहृत्य स्वस्त्रीभ्यो दत्त्वा तासां प्रियाणि जनयतीत्यर्थः । अत्र यद्यपि बुधस्य स्थानविशेषो नाभ्यधायि तथापि लग्नस्थो बुध इति व्याकर्तव्यम् । यदाह गुरुः - ' त्रिषण्णवांत्यगे चंद्रे लग्ने च सबले बुधे । गुरौ केंद्रे तदा याता राजलक्ष्मीं लभेनृपः ॥' इति ॥ ६६ ॥
अथान्यद्योगयात्रालग्नमाह
३८०
अशुभखगैरनवाष्टमदस्थैर्हिबुकसहोदरलाभगृहस्थः । कविरिह केंद्रगगीष्पतिदृष्टो वसुचयलाभकरः खलु योगः ॥६७॥
अशुभखगैरिति ॥ अस्य जगत्यामभिनवतामरसाख्यं छंदः । तल्लक्षणं च वृत्तरत्नाकरे ‘अभिनवतामरसं नजजाद्यः' इति । अशुभखगैः पापग्रहैर्हि निश्चितं नवमाष्टमसप्तमस्थानव्यतिरिक्तस्थानस्थैः सद्भिर्यदि कविः शुक्रः चतुर्थतृतीयैकादशस्थानस्थः सन् केंद्रस्थितो यो गीष्पतिर्गुरुस्तेन दृष्टो भवेत् एवंविधो योगो वसुचयो द्रव्यसमूहस्तस्य लाभकरः स्यात् । विजिगीषो राज्ञो विजयोऽपि स्यात् । उक्तं च वराहेण - 'केंद्रोपगतेन वीक्षिते गुरुणा घ्यायचतुर्थगे सिते । पापैरनवाष्टसप्तगैर्वसु तत्किं न यदाप्नुयान्नृपः ॥' इति । क्वचित्तु पापग्रहा नवमाष्टमसप्तमस्थाः शुभा एवेत्युक्तम् । तथा च गुरुः - ' भ्रात्रायगृहगे शुक्रे केन्द्रे देवगुरौ स्थिते । सप्ताष्टनवराशिस्थाः पापा यातुः शुभप्रदाः ॥'. इति । गृहं = चतुर्थस्थानम् ॥ ६७ ॥
1
अथान्यद्योगयात्रालग्नमाह
रिपुलग्नकर्महिबुके शशिजे परिवीक्षिते शुभनभोगमनैः । व्ययलग्नमन्मथगृहेषु जयः परिवर्जितेष्वशुभनामधरैः ॥६८॥ रिपुग्नेति ॥ अस्य जगत्यां प्रमिताक्षराछंदः । तल्लक्षणं च ‘प्रमिताक्षरा सजससैरुदिता' । षष्ठ ६ लग्न १ दशम १० चतुर्थ ४ स्थानानामन्यतमस्थानस्थे शशिजे बुधे शुभनभोगमनैः शुभग्रहैश्चंद्रगुरुशुकैः परिवीक्षिते दृष्टे सति द्वादश १२ लग्न १ सप्तम ७ स्थानेभ्यो व्यतिरिक्तस्थानस्थितैरशुभनामधरैः पापग्रहैरुपलक्षिते सति एवंविधे विशिष्टे योगे जिगमिषो राज्ञो जय एव स्यात् । यदाह वराहः – 'लग्नारिकर्महिबुकेषु शुभेक्षिते ज्ञे द्यूनांत्यलभर हितेष्वशुभग्रहेषु ।