________________
गयात्रालमानि ] यात्राप्रकरणम् ११ ।
३७९ गुरुः–'यमारौ त्रिषडायस्थौ बुधजीवसितास्तदा। महाबलयुता योगो यातुरिष्टार्थदः सदा ॥' इति ॥ ६२॥ अथान्यद्योगयात्रालनमाह
समुदयगे विबुधगुरौ मदनगते हिमकिरणे । हिबुकगतौ बुधभृगुजौ सहजगताः खलखचराः ॥६३॥ समुदयगे इति ॥ अस्य गाथाछंदः प्राग्वत्स्वमते ग्रंथांतरे च । समुदयगे लग्नस्थे गुरौ सति, हिमकिरणे चंद्रे मदनगते सप्तमस्थे सति, हिबुकं चतुर्थस्थानं तत्र गतौ बुधशुक्रौ स्यातां, खलखचरे पापग्रहे सहजं तृतीयस्थानं तत्र गते च सति, एवंविधे योगे वसुधापतिर्यदि याति रिपुवाहिनी तदा वशमेति । यदाह वराहः-'पापास्तृतीये हिबुके सितज्ञो जीवो विलग्ने मृगलांछनोऽस्ते । यस्योद्यमे तस्य बलं रिपूणां कृतं कृतघ्नेष्विव याति नाशम् ॥' इति ॥ ६३ ॥
अथान्ययात्रायोगमाहत्रिदशगुरुस्तनुगो मदने हिमकिरणो रविरायगतः । सितशशिजावपि कर्मगतौ रविसुतभूमिसुतौ सहजे ॥ ६४॥ त्रिदशगुरुरिति ॥ अस्य त्रिष्टुभि सुमुखीछंदः । तल्लक्षणं-'नजजलगैर्गदिता सुमुखी'। यथा बृहस्पतिर्लग्नगः स्यात् चंद्रः सप्तमे स्यात् शुक्रबुधौ दशमगतौ स्यातां सूर्य एकादशस्थः स्यात् शनिमंगलौ तृतीयस्थाने स्यातां एवंविधे योगे राज्ञो विजय एव । यदाह वराहः-'चंद्रेऽस्तगे देवगुरौ विलग्ने ज्ञशुक्रयोः कर्मणि लाभगेऽर्के । सौरारयोर्भातृगयोश्च याता नृपः स्वभृत्यानिव शास्ति शत्रून् ॥' इति ॥ ६४ ॥ अथान्यद्योगयात्रालग्नमाह
देवगुरौ वा शशिनि तनुस्थे वासरनाथे रिपुभवनस्थे । पंचमगेहे हिमकरपुत्रः कर्मणि सौरिः सुहृदि सितश्च ॥६५॥
देवगुराविति ॥ अस्य त्रिष्टुभि श्रीछंदः । तल्लक्षणं च 'पंचरसैः श्रीमतनगगैश्च' पंचरसैः पंचभिः षभिरक्षरैश्च यतिः । गुरौ चंद्रे वा लग्नस्थे सति, सूर्य षष्ठस्थे बुधश्च पंचमस्थाने शनिर्दशमे स्यात् , शुक्रः चतुर्थस्थाने स्यात् , एवंविधे योगे जिगमिषो राज्ञो विजय एव । यदाह वराहः-गुरौ विलग्ने यदि वा शशांके षष्ठे रवौ कर्मगतेऽर्कपुत्रे । सितज्ञयोबंधुसुतस्थयोश्च यात्रा जनित्रीव हितानि धत्ते ॥' इति । जनित्री माता ॥ ६५ ॥ अथान्यद्योगयात्रालग्नमाहहिमकिरणसुतो बली चेत्तनौ त्रिदशपतिगुरुर्हि केंद्रस्थितः। व्ययगृहसहजारिधर्मस्थितो यदि च भवति निर्बलश्चंद्रमाः ६६