________________
मुहूर्तचिंतामणिः। [योगयात्रालग्नानि शत्रवः शलभा इव स्युः। यथा शलभा अग्नौ स्वयमेव गत्वा पतंति तथा शत्रवोऽपि गंतृराजप्रतापानले पतिष्यतीत्यर्थः । यदाह वराहः-'मूर्तिवित्तसहजेषु संस्थिताः शुक्रचंद्रसुततिग्मरश्मयः। यस्य यानसमये रणानले तस्य यांति शलभा इवारयः ॥' इति ॥ ६० ॥ अथान्यद्योगलग्नमाह
उदये रविर्यदि सौरिररिगः शशी दशमेऽपि ।
वसुधापतिर्यदि याति रिपुवाहिनी वशमेति ॥ ६१ ॥ उदय इति ॥ अस्य गाथाछंदः प्राग्वत्स्वमते ग्रंथांतरे च । यदि उदयलग्ने रविः स्यात् , सौरिः अरिगः षष्ठस्थः स्यात् , शशी दशमस्थः स्यात् ,तदा एवंविधे योगे वसुधापतिः राजा याति तदा रिपुवाहिनी शत्रुसेना वशमेतीति । यदाह नारदः-व्यापारशत्रुमूर्तिस्यैश्चंद्रमददिवाकरैः । रणे गतस्य भूपस्य जयलक्ष्मी प्रमाणिका ॥' इति । व्यापारः दशमम् । वराहोऽपि-'दिवाकरो लग्नगतो यदि स्यात्षष्ठेऽर्कसूनुर्दशमे शशी च । योगेऽत्र यातस्य न तिष्ठतेऽन्यो बलेन हीनस्य बलान्वितोऽपि ॥' इति ॥ ६ ॥
अथान्यद्योगयात्रालग्नद्वयमाहतनौ शनिकुजौ रविर्दशमभे बुधो भृगुसुतोऽपि लाभदशमे । त्रिलाभरिपुभेषु भूसुतशनी गुरुज्ञभृगुजास्तथा बलयुताः ॥६२॥
तनाविति ॥ अस्य जगत्यां जलोद्भुतगतिछंदः । तल्लक्षणं च-रसैजसजसा जलोद्धतगतिः' रसैः षभिःषभिरक्षरैयतिर्विच्छेदः। इत भारभ्य 'वसुधापतियदि याति रिपुवाहिनी वशमेति'इत्युत्तरार्ध 'सहजे कुजः' (११।७२)इत्येतस्पधपयेतमनुवर्तते। तेन यत्र यत्र श्लोके फलनिर्देशो नास्ति तत्र जिगमिषो राज्ञो विजयः स्यादिति वाक्यार्थो ध्येयः । तनौ लग्नस्थौ शनिमंगलौ यथासंभवं स्यातां, रविर्दशमभे स्यात् , बुधो लाभे दशमे वा स्यात् , भृगुसुतो वा लाभे दशमे वा स्यात् । तदेवंविधे योगे प्रचलितस्य राज्ञो जयः स्यात् । यदाह वराहः'सौरौ भौमे लग्नगेऽर्के खमध्ये कर्मण्याये भार्गवे चंद्रजे वा । यायाभूपः शत्रुदेशं निहंतुं दृप्तं शत्रु कालवस्क्रूरचेष्टः ॥' इति । गुरुरपि-'मारे वा सूर्यजे वापि लग्नगे दशमे रवौ। कर्मण्याये सिते ज्ञे वा योगोऽयं यातुरुत्तमः ॥' इति । अयमेको योगः। अथ द्वितीययोगः । त्रिलाभरिपुभेषु तृतीयैकादशषष्ठस्थानानामन्यतमस्थानद्वयस्थितौ भूसुतशनी मंगलशनैश्चरौ यदि स्यातां, चेद्यस्मिन् कसिंश्चित्स्थाने स्थिता गुरुज्ञभृगुजा बलयुताः स्युः, तदैवंविधे योगे तथा राज्ञो विजय इत्यर्थः। यदाह नारदः-'त्रिषडायेषु सौरारौ बलवंतः शुभा यदि । यात्रायां नृपतेस्तस्य करस्था शत्रुमेदिनी ॥' इति । श्रीपतिरपि-न्यायारिषु यमारौ चेच्छक्तिभाजः शुभग्रहाः । प्रयाणे नृपतेर्यस्य हस्तस्था तस्य मेदिनी ॥' इति । शुभग्रहाश्चंद्ररहिता विवक्षिताः। यदाह