________________
योगयात्रालग्नानि ] यात्राप्रकरणम् ११ ।
३७७ तत्र रंधेऽष्टमे स्थाने इंदु पेक्षितो यत्र कुत्राप्यस्तु चंद्र इति व्याकुर्वते । तद. शुद्धम् । यस्मात्स्पष्टमाह वराहः-'गुरुरुदये रिपुराशिगतोऽर्को यदि निधनेऽपि च शीतमयूखः। भवति गतोऽत्र शशीव नरेंद्रो रिपुवनिताननतामर- • सानाम् ॥' इति । नारदोऽपि-'जीवार्कचंद्रा लग्नारिरंध्रगा यदि गच्छतः । तस्याग्रे खलमैत्रीव न स्थिरा रिपुवाहिनी ॥' इति । बादरायणोऽपि-गुरुविलग्ने रिपुराशिगोऽर्कस्तथाष्टमे शीतमयूखमाली । गतोऽत्र योगे रिपुकामिनीनां वक्रारविंदेषु शशित्वमेति ॥' इति ॥ ५७ ॥ अथान्यद्योगयात्रालग्नमाह
लग्नगतः स्याद्देवपुरोधाः।
लाभधनस्थैः शेषनभोगैः ॥ ५८॥ लग्नगत इति ॥ अत्र सुप्रतिष्ठायां पंक्तिच्छंदः । तल्लक्षणं च-भौ गिति पंक्तिः' । यथा बृहस्पतिर्लग्नगतः स्यात् , अन्ये ग्रहा लाभधनस्था एका दशद्वितीयस्थानस्थाश्चेत्तदैवंविधे योगे राज्ञो विजयः। उक्तं च नारदेन-'लग्नस्थे त्रिदशाचार्ये धनायस्थैः परग्रहैः । गतस्य राज्ञोऽरिसेना नीयते यममंदिरम् ॥' इति । श्रीपतिनाऽपि-'वाक्पतौ तनुस्थिते वित्तलाभगैः परैः । गच्छतोऽरिवाहिनी नीयतेऽन्तकालयम् ॥' इति ॥ ५८ ॥ अथान्यद्योगयात्रालग्नमाह
चूने चंद्रे समुदयगे जीवे शुक्रे विदि धनसंस्थे । - ईदृग्योगे चलति नरेशो जेता शत्रून्गरुड इवाहीन् ॥ ५९॥ .. धून इति ॥ अत्र पंक्तौ मत्ताच्छंदः । तल्लक्षणं च-'ज्ञेया मत्ता मभसगयुक्ता'। चंद्रे चूने सप्तमस्थाने सति, अर्के समुदयगे लग्नगते सति, जीवे शुक्र विदि बुधे, एषु त्रिषु ग्रहेषु धनसंस्थेषु द्वितीयस्थानेषु सत्सु एवंविधे योगे चेन्नरेशश्चलति तदा शत्रून् जेता जेष्यति । कः कानिव ? गरुडोऽहीन्सर्पान् यथा जयति । यदाह वराहः-'शुक्रवाक्पतिबुधैर्धनसंस्थैः सप्तमे शशिनि लग्नगतेऽर्के । निर्गतो नृपतिरेति कृतार्थों वैनतेयवदरीन्विनिहन्ति ॥' इति ॥ ५९॥ अथान्यदपि योगलग्नमाह
वित्तगतः शशिपुत्रो भ्रातरि वासरनाथः ।
लागते भृगुपुत्रे स्युः शलभा इव सर्वे ॥ ६०॥ वित्तगत इति ॥ अस्यानुष्टुभि चित्रपदाछंदः । तल्लक्षणं च-'भौ गिति चित्रपदागः' । शशिपुत्रो बुधो वित्तगतः द्वितीयस्थः वासरनाथः सूर्यो भ्रातरि तृतीयस्थः भृगुपुत्रे शुक्रे लग्नसंस्थे सति एवंविधे योगे चेबाजा चलति तदा