________________
३७६
मुहूर्तचिंतामणिः। [योगयात्रालग्नानि नृपो राजा प्रचलितः शत्रुनगरजयार्थ कृतयात्रः सनचिरात्स्वल्पकालेनैवारीन् शत्रून् जयति वशीकरोतीत्यर्थः । यदाह वराहः-'लग्ने गुरुर्बुधभृगू हिबुकात्मजस्थौ षष्ठौ कुजार्कतनयौ दिनकृत्तृतीयः। चंद्रश्च यस्य दशमे भवति प्रयातुस्तस्याभिवांछितफलाप्तिरलं नृपस्य ॥' इति । बुधो हिबुके, भृगुरात्मजे, इति यथासंख्येनान्वयः। क्वचित् 'भृगुबुधौ' इति पाठः, स चिंत्यः; 'भृगुर्हिबुके' इति तावद्युक्तं परंतु रविस्तृतीये बुधः पंचमे इतीदमयुक्तम् । नहि सूर्यात्तृतीयो बुधः क्वचिदपि संभवेत् , तस्मात्प्रागुक्त एव साधीयान् पाठः ॥ ५५ ॥ अथान्यद्योगयात्रालग्नमाह
भ्रातरि सौरिभूमिसुतो वैरिणि लग्ने देवगुरुः ।
आयगते शत्रुजयश्चेदनुकूलो दैत्यगुरुः ॥५६॥ भ्रातरीति ॥ अस्य गाथाछंदः । तल्लक्षणं च–'विषमाक्षरपादं वा पादैरसमं दशधर्मवत् । यच्छंदो नोक्तमत्र गाथेति तत्सूरिभिः प्रोक्तम् ॥' इति । 'अत्र ग्रंथे उक्तछंदोभ्यो यदन्यद्विषमाक्षरपादं पादैरसमं वा छंदस्तगाथाख्यम्'इति केचिदाहुः। अपरे तु प्रागुक्तेषु समानाक्षरपादेषूक्तादिष्वपि विशिष्य यस्याभिधानं नोक्तं तद्गाथेत्यूचुः। तदेतदर्थद्वयं यच्छंदो नोक्तमत्र गाथेतीत्येतस्यावृत्त्या लभ्यम् । अत एव पिंगल: सूत्रकारोऽपि संमुग्धाकारेण-'अत्रानुक्तं गाथा' इत्यवोचत् । छंदोग्रंथांतरेऽस्य नामास्ति । भ्रातरि तृतीये सौरिः शनिः स्यात् , वैरिणि षष्ठे भूमिसुतो मंगलः, लग्ने देवगुरुः, आय एकादशस्थानं तत्र गतोऽर्कश्च एवंविधे योगे राज्ञः शत्रुजयो भवेत् । चेदैत्यगुरुः शुक्रोनुकूलो यातव्यदिक्पृष्ठवर्ती भवति। यदाह वराहः-'होरातृतीयरिपुलाभगतैः क्रमेण जीवार्किभौमरविभि गुजेऽनुकूले । यातोऽतिदृप्तमपि शत्रुबलं निहंति नैशं तमिस्रमिव तिग्ममयूखमाली ॥' इति । भृगुजानुकूल्यं यातव्यदिक्पृष्ठवर्तित्वं विवक्षितम् । यदाह बादरायणः-'लग्नत्रिलाभारिगतैः क्रमेण जीवार्किसूर्यावनिजैः सितश्च । यातव्यदिक्पृष्ठगतो नरेंद्रः शत्रोर्बलं हंति गतोऽचिरेण ॥' इति ॥ ५६॥ , अथान्यद्योगयात्रालग्नमाह
तनौ जीव इंदुम॒तौ वैरिगोर्कः ।
प्रयाता महींद्रो जयत्येव शत्रून् ॥ ५७ ॥ तनौ जीव इति ॥ गाथाछंदः प्राग्वत् स्वमते ग्रंथांतरे च । तनौ लग्ने जीवो गुरुः स्यात् , मृतावष्टमस्थाने इंदुः स्यात्, वैरिगः षष्ठस्थानगतोऽर्कश्चेत्स्यात् ; एवंविधे योगे प्रयातागंता महींद्रो राजा शत्रून् जयत्येव । यदाह श्रीपतिः'गुरुर्लग्ने रविः षष्ठे रंध्रेणेंदुश्च गच्छतः । यस्य तस्यारिसेनाग्रे खलमैत्रीव न स्थिरा॥'इति। रंधेणेत्युपलक्षणे तृतीया। अत्र केचित् 'रंधे नेंदुः' इति पाठं पठति।
१ छन्दःशास्त्रकृतामिदमभिमतम् ।