________________
योगयात्रा ] .
यात्राप्रकरणम् ११ ।
३७५
अथ योगयात्रालग्नमाह
सहजे रविर्दशमभे शशी तथा शनिमंगलौ रिपुगृहे सितः सुते । हिबुके बुधो गुरुरपीह लग्नगः स जयत्यरीन्प्रचलितोऽचिरान्नृपः ॥
-
सहजे इति ॥ मंजुभाषिणीछंदः । तल्लक्षणं च - 'सजसा जगौ भवति मंजुभाषिणी' इति । अस्यार्थः - सगणजगणसगणजगणगुरवो यस्य पद्यस्य चरणे तन्मंजुभाषिणीनाम । यथा । ननु मंजुभाषिणीति पद्यनामधेयमुक्तं, लक्षणं तु चरणस्यैवोक्तं न सकलस्य पद्यस्य । सत्यम् । एतच्चरणलक्षणं पादचतुष्टयेऽपि ध्येयम् । समवृत्तत्वात् । त्रिविधानि हि वर्णच्छंदांसि - समम्, अर्धसमं, विषमं चेति ‘सममर्धसमं वृत्तं विषमं च तथापरम्' इति तत्रैवोक्तत्वात् । तत्र यस्य पद्यस्य चत्वारश्चरणा एकलक्षणग्रथितास्तत्समवृत्तम् । उक्तं च 'अंध्रयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः । तच्छंदः शास्त्रतत्त्वज्ञाः समवृत्तं प्रचक्षते ॥' तुल्यमेकम् । यथा द्रुतविलंबितम् — 'नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपंकजम् । मृदुलतान्तलतान्तमलोकयत्स सुरभिं सुरभिं सुमनोभरैः ॥' इति । तल्लक्षणं चेदम् — 'द्रुतविलंबितमाह नभौ भरौ' इति । यस्य पद्यस्य प्रथमचरणस्तृतीयचरणश्चैकलक्षणलक्षितो द्वितीयश्चतुर्थश्चाप्येकलक्षणलक्षितस्तदर्धसमं वृत्तम् । 'प्रथमांत्रिसमो यस्य तृतीयचरणो भवेत् । द्वितीयस्तुर्यवद्वृत्तं तदर्धसममुच्यते ॥' इति तत्रैवोक्तत्वात् । एतेनार्धं सममर्धसममित्यन्वर्थसंज्ञापि । यथा पुष्पिताग्रा – 'अनुगिरमृतुभिर्वितायमानामथ स विलोकयितुं वनांतलक्ष्मीम् । निरगमदभिरोद्धुमादृतानां भवति महत्सु न निष्फलः प्रयासः ॥' इति । पुष्पिताग्रालक्षणं चेदम्— 'अयुजि नयुग रेफतो यकारो युजि च नजौ जरगाश्च पुष्पितामा' इति । यस्य चतुर्षु चरणेषु प्रत्येकं भिन्न भिन्नं लक्षणं तद्विषमं वृत्तम् । उक्तं च-‘यस्य पादचतुष्केऽपि लक्ष्म भिन्नं परस्परम् । तदाहुर्विषमं वृत्तं छंदःशास्त्रविशारदाः ॥' इति । यथोद्गता - ' ननु सर्व एव समवेक्ष्य कमपि गुणमेति पूज्यताम् । सर्वगुणविरहितस्य हरेः परिपूजया कुरुनरेंद्र को गुणः ॥' इति । लक्षणं चास्येदम्- 'सजसादिमे सलघुकौ च नसजगुरुकैरथोद्गता । त्र्यंघ्रिगतभनजला गयुताः सजसा जगौ चरणमेकतः पठेत् ॥ इति । मगणादिकगणा उक्ताः भामहेन - 'मस्त्रिगुरुखिलघुश्च नकारो भादिगुरुः पुनरादिलघुर्यः । जो गुरुमध्यगतो रलमध्यः सोऽन्तगुरुः कथितोऽन्तलघुस्तः ॥' इति । एवं सत्यन मंजुभाषिणीछंदसः समवृत्तत्वादेकचरणलक्षणाभिधानं कृतं केदारेणेत्यलमतिप्रसंगेन । अथ प्रस्तुतमनुसरामः । सहज इति । रविः सहजे तृतीयस्थाने स्यात्, शशी चंद्रो दशमभे दशमस्थाने, शनिमंगलौ रिपुगृहे षष्ठस्थाने स्याताम् सितः शुक्रः सुते पंचमस्थाने, बुधो हिबुके चतुर्थस्थाने, गुरुर्लग्नगश्चेत्स्यात्, अपि तथाशब्दौ पादपूरणे; इहैवंविधे योगे यात्रालग्ने