________________
३७४
मुहूर्तचिंतामणिः । [यात्रायां योगस्य वैशिष्ट्यं तत्र बहुधा बहुना कालेन बहुदोषहानं बहुगुणोपादानं चोदितम् । द्वितीया समरविजयाख्या राज्ञामेव । तत्र योगयात्रा समरविजयोपयोगिनी । उपस्थिते युद्धे पंचांगशुद्धिर्बहुदिवसप्राप्येति तद्विचारानुपयोगात् । उक्तं च वसिष्ठेन योगयात्राप्रारंभे-'उक्ता साधारणी यात्रा युद्धयात्रां ब्रवीम्यहम् । व्रति ये नृपाः सूक्ष्मे लग्ने ते जयिनः सदा ॥ योगलग्गैर्युता राज्ञां यात्रा च विजयप्रदा। विचित्रान्योगलग्नांस्तान्सम्यग्वक्ष्ये समासतः ॥' इति । अन्ये तु युद्धं विनैव आत्ययिककार्यविषयैव योगयात्रेत्याहुः । यदाह पराशरः-'भात्ययिककार्यपाते दैवेन निपीडिते च यातव्ये। केवलविलग्नयोगादपि याता सिद्धिमामोति॥' इति । तत्रापि केवलेन योगयात्राबलेनैवंविधे विषये यात्रा न विधेया, किंतु यथासंभवं पंचांगसंबंधिनां द्विविधानां दोषाणां त्यागः तादृशानां गुणानां चोपादानं विधेयम् । संति हि द्विविधा दोषाः-नैसर्गिका अन्याहिताश्च । यथा तिथेः 'न षष्ठी न च द्वादशी' (११।९) इति नैसर्गिको दोषः। 'चापांत्यगे गोघटगे' (६।६४) इति दग्धदोषोऽन्याहितः । एवं वारनक्षत्रयोगानां द्वैविध्यं ऊह्यम् । एवं गुणा अपि द्विविधाः 'हयादित्य-' (११।९) इति विहितनक्षत्रत्वान्नैसर्गिको गुणः । शुभग्रहस्य साहित्यमन्याहितो गुणः । एवमन्येषामपि गुणानां द्वैविध्यमूह्यम् । तत्र यथा राज्ञां यथासंभवं दोषहानं गुणोपादानं चांगीकृत्य योगयात्रा विधेया। एवं ब्राह्मणादीनामप्यावश्यककार्यातिपातविषये नक्षत्रादिबलं ग्राह्यं । यथासंभवं च लग्नादिसमस्तदोषगुणानां हानोपादाने न्याय्ये स्त इति । तथाच लल्लः-'यातव्ये व्यसनगते ह्यनिष्टदेवे च भूपतिस्त्वरया। लग्नैरभीष्टकल्पैव्रजेत्तिथौ भेषु च समेषु ॥ कार्येषु पराधीनेष्वनेकसाधारणेषु शीघेषु । प्रायेण गमनमिष्टं सदैव नतु सूक्ष्मचिंताऽस्ति' इति ॥अत एव–'न तिथिनं च नक्षत्रं न ग्रहो नैंदवं बलम् । योगमेव प्रशंसंति वसिष्ठात्रिपराशराः ॥' इति वराहवाक्यं योगयात्रालग्नप्रशंसापरं नतु तिथ्यादीनामपवादकमिति तात्पर्यम् । ननु पूर्व दोषहानपूर्वकं समीचीनलग्नाभिधानं कृतमेवास्ति, कोऽस्ति योगयात्रालग्नेषु विशेषः ? उच्यते,-शुक्रः सप्तमो लग्नभंगकर्तेत्युक्तं प्राक्, अत्र तु शशिनि चतुर्थे सति शुक्रः सबुधश्चेत्सप्तमस्थस्तदा तद्योगयात्रालग्नमतीव शुभफलदम् । एतादृशं योगलग्नं ग्रंथकृद्वक्ष्यति । तत्र कियतामेव ग्रहाणां नियतस्थानावस्थित्या प्रागुक्तनीतेरशुभमपि शुभफलदायकं लग्नं भवति । यदाह श्रीपतिः-'यथा हि योगादमृतायते विषं विषायते मध्वपि सर्पिषा समम् । तथा विहाय स्वबलानि खेचराः फलं प्रयच्छंति हि योगसंभवम् ॥' इति । योगात् दुग्धादिद्रव्ययोगेन शोधनादित्यर्थः । सर्पिघृतम् । स्वभावतो लग्नप्राबल्ये योगोऽपि चेत्संभवेत्तदातीव शुभफलदं लग्नम् । अत एव योगेन यात्रा योगयात्रेत्यन्वर्थसंज्ञाविज्ञानमपि प्रतीयते । योगो नाम कियतां ग्रहाणां नियतस्थानावस्थितत्वम् । एवं वक्ष्यमाणेषु सर्वेष्वपि योगयात्रालग्नेषु यथासंभवं किंचिडूषणं समुह्य तस्मादेव वाक्याद्दोषाभावपूर्वकं गुणाधिक्यमस्तीति व्याकर्तव्यमित्यलमतिप्रसंगेन ॥ ५४॥