________________
योगयात्राया अपवादविचारः] यात्राप्रकरणम् ११ । केचित्तु शिवालिखितोक्तमुहूर्तासिद्धिः स्यादित्याहुः । यदाह नारदः'फलसिद्धिर्योगबलाद्राज्ञो विप्रस्य धिष्ण्यतः । मुहूर्तशक्तितोऽन्येषां शकुनस्तस्करस्य च ॥' इति । वराहोऽपि–'योगैः क्षितिपालविनिर्मिताः शकुनैस्तस्करचारणादयः । नक्षत्रबलैर्द्विजातयः क्षणवीर्यादितरो जनोऽर्थभाक् ॥' इति । द्विजातयो ब्राह्मणाः । अत्र द्विजातय इति ब्राह्मणक्षत्रियवैश्या इति भट्टोत्पलो व्याख्यत् । तन्न । नारदवाक्ये साक्षाद्विप्रपदोपादानात् । अत एव वसिष्ठोऽपि-'फलसिद्धिर्धिष्ण्यगुणैरग्रजानां भवेत्सदा । योगलनैः क्षितीशानां चौराणां शकुनै शम् ॥' इत्यग्रजपदं प्रायुक्त । नन्वत्र राज्ञां योगैर्यात्रा फलसिद्धिदेत्युक्तं, तत्रेयं योगयात्रा किं सर्वदोषापवादिका, उत विषयविवेकः ? इति । सर्वापवादिकेति चेत् किं सर्वशब्देन शुभाशुभप्रकरणाभिहिता दोषा उच्यते, उत एतद्यात्राप्रकरणोक्तनक्षत्रशूलवारशूलपारिघदंडप्रतिशुक्रादिका दोषाः, उताविशेषात्सर्वेऽपि दोषाः? इति । तत्र यदि शुभाशुभप्रकरणोक्तदोषापवादकत्वे सति योगयात्रालग्ने तद्विचारस्य त्यागप्रसंगादिति चेत् । न । 'न हिंस्यात्सर्वा भूतानि' 'अग्नीषोमीयं पशुमालभेत' इति वदत्रोत्सर्गापवादस्य शिष्टसंमतत्वाभावात् । अत्र यात्राप्रकरणोक्तदोषापवादकत्वे सति नक्षत्रशूलप्रतिशुक्रादीनां राजविषयकाणामनभिधानप्रसंगात् । तथा हि'ज्येष्टायां पुरुहूतदिङ्मुखगतः प्राप्तो बलिबंधनं याम्यामाजपदे मुरश्च दितिजो यातो मुरारेर्वशम् । रोहिण्यां नमुचिः प्रतीच्यभिगतश्चूर्णीकृतो वज्रिणा सौम्यामर्यमदैवतेन गतवान्मृत्योर्वशं शंबरः ॥' इति । 'प्रतिशुक्रं प्रतिबुधं प्रतिभौम गतो नृपः । बलेन शक्रतुल्योऽपि हतसैन्यो निवर्तते ॥' इत्यादिषु नृपविषयत्वात् । ननु नक्षत्रशूलकथने वसिष्ठादिभी राजपदोपादानं तादृशो दृष्टांतो वा नाभ्यधायि, कथं नृपतिविषयतांगीक्रियते ? सत्यम् । सामान्यवाक्यस्य विशेषवाक्यानुरोधाद्विशेषे पर्यवसानम् । यथा-'पुरोडाशं चतुर्धा करोति,आग्नेयं चतुर्धा करोति' इतिवत् । तेन न वैश्वदेवाख्यपुरोडाशस्य चतुर्धाकरणम् । किंच योगादेव चेत्फलसिद्धिस्तदा 'न षष्टी न च द्वादशी नाष्टमी' (१।९) इत्येतप्रकरणपठितं तिथिशुद्ध्यादिकं व्यर्थं स्यात् । न च विप्राद्यर्थ तिथिशुद्ध्यादिसार्थकं स्यादिति वाच्यम् । तत्रापि नक्षत्रगुणादिभिरेव प्राशस्त्यावबोधनात् । अथोभयदोषापवादकत्वे इष्टे शुभाशुभप्रकरणं यात्राप्रकरणं चोल्लंघ्य स्थलांतरेऽतिदेश विना योगयात्रोपनिबंधः कर्तव्यः स्यात् शवप्रतिकृतिदाहश्राद्धनिर्णयकथनवत् । नहि तत्र पंचांगदोषा युज्यंते । यद्येवं संस्कारप्रकरणगृहप्रवेशप्रकरणादीनां पार्थक्योपनिबंधात्पंचांगदोषापवादकता कुतो नास्तीति चेत् । उच्यते-तत्र हि ‘पंचांगसंशुद्धदिनादिके च' इति वसिष्टादिभिः 'पर्वाख्यरिकोनतिथौ शुभेऽह्नि' इति ग्रंथकृताप्यतिदेशोपनिबंधस्य कृतत्वात् । अतः सर्वापवादिकेत्ययुक्तः पक्षः। तस्मात् 'अबाधेनोपपत्तौ बाधो न न्याय्यः' इति हेतोविषयविवेक इत्येव युक्तः पक्षः। स च यथा । यात्रा हि द्विविधा-एका साधारणयात्रा, अपरा समरविजयाख्या । साधारणयात्रा तु वर्णचतुष्टयसाधारणी।
३२ मु. चि.