________________
३७२
मुहूर्तचिंतामणिः । [योगयात्रायां सिद्धिहेतवः लग्नयोर्ग्राह्यता भवन्मते प्रसज्येत । तनेष्टापत्तिरिति चेत् । ज्योतिःशास्त्रे हि सामान्यशास्त्रेणैव सर्वसिद्धविषयस्य व्यापृतत्वाद्विशेषशास्त्रे दत्तजलांजलिता. दोषप्रसंगः स्यात् । एवं च 'न हिंस्यात्सर्वा भूतानि' इत्यादिसाधारणवैदिकवाक्यानां 'अग्नीषोमीयं पशुमालभेत' इत्यादिविशेषवाक्येष्वपि व्यापृतत्वाद्विशेषशास्त्रोच्छेदापत्तिः। अत्र ग्रहाणां फलदातृत्वं सबलानां दुर्बलानां वा यादृशतादृशानां वा स्यादिति संदेहस्तत्र निर्णयमाह श्रीपतिः-'अस्तंगता ग्रहजिता रिपुदृष्टदेहा नीचस्थिता विरुचयोऽरिगृहं प्रयाताः। ऋक्षाण्यवश्यकमपि स्वफलं विलग्ने दातुं क्षमाः खलु भवंति न खेचरेंद्राः ॥ युद्धे जिताः शुभफलानि विनाशयति पापानि चाशु नितरां परिवर्धयंति' इति । 'औत्पातिकाः सवितृलुप्तकरा विरुक्षा नीचं गता रिपुगृहं च नभश्चरेंद्राः' इति सारावल्याम् । अत एव तादृशाधिकारविशेषमाह श्रीपतिः-'वोच्चे रूपं चरणरहितं स्वत्रिकोणे स्वभेऽधं नागांशानां त्रयमधिसुहृदेहगेऽमित्रभेऽघ्रिः। अंशोऽष्टानां समगृहगते भूपभागोऽरिगेहे दंतांशः स्यादधिरिपुगृहे नीचगे. शून्यमेव ॥ एतच्छुभाख्यमशुभं च पुनर्गृहेषु स्वोच्चादिवर्तिषु वदंति तदूनमेकम्' इति ॥ ५३॥
अथ योगयात्रा व्याख्यायते । तत्र ग्रंथकृच्छंदःशास्त्रकृतपटुतराभ्यासं सूचयन्नानाविधैश्छंदोभिः मंजुभाषिणीप्रभृतिभिर्ग्रथितामावश्यकराजयात्रौपयिकी योगयात्रां वक्तुकामस्तदारंभप्रयोजनमाह
योगात्सिद्धिर्धरणिपतीनामृक्षगुणैरपि भूदेवानाम् । चौराणामपि शकुनैरुक्ता भवति मुहूर्तादपि मनुजानाम् ॥५॥ योगादिति ॥ पादाकुलकं छंदः । तल्लक्षणं वृत्तरत्नाकरे-'यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमादिपादैः कलितम् । अनियतवृत्तपरिमाणसहितं प्रथितं जगत्सु पादाकुलकम् ॥' इदं लक्षणम् 'द्विकगुणितवसुलघुरचलतिरिह' इत्येतत्प्रकरणे पठ्यते । तेन चरणचतुष्टये प्रत्येकं षोडशमात्रा ज्ञेयाः । तत्र गुरोर्मात्राद्वयं लघोर्मात्रैका मिलित्वा षोडश यथात्र पद्ये । अत्र प्रथमतृतीयचतुर्थचरणेषु मात्रासमकलक्षणम् । उक्तं च 'मात्रासमकं नवमो लगांतम्' इति । मात्रासमकाख्ये छंदसि नवमो ल लघुरित्यर्थः ।गांतं पादांते गुरुः । द्वितीयचरणे उपचित्रालक्षणम् । उक्तं च 'उपचित्रा नवमे परयुक्ते' परा दशमी मात्रा तया युक्ते नवमे नवमदशममात्राद्वयेनैको गुरुः स्यादित्यर्थः । अत एवो. क्तम्-'यदतीतकृतविविधलक्ष्मयुतैः' इति । न चास्त्यत्र मात्रासाम्यम् । परंतु अनियतवृत्तपरिमाणसहितमिति तेन पादाकुलकमित्यन्वर्थसंज्ञाप्यस्ति । धरणिपतीनांराज्ञां योगाद्वक्ष्यमाणसहितयोगयात्रालग्नवशाद् दुष्टेऽपि तिथ्यादौ सिद्धिर्वाछितकार्यनिष्पत्तिः स्यात् । भूदेवानां ब्राह्मणानामृक्षगुणैर्नक्षत्रगुणैचंद्रबलताराबलविहितनक्षत्रत्वादिभिः सिद्धिर्भवति । अपिशब्दात्पंचांगशुझ्यादिषु नावश्यकता। चौराणां शकुनैर्वक्ष्यमाणशुभसूचकशकुनैः सिद्धिर्भवति।