SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ केंद्गते लग्नेशे वैशिष्ट्यं ] यात्राप्रकरणम् ११ । ३७१ सामान्यदूषणस्य सामान्यत एव परिहार उचितः । यथा-'नंति क्रूराख्यायवर्ज हि भावान्न व्यापारं निहतः सूर्यभौमौ' इति वाक्यात्सर्वे क्रूरग्रहास्तुतीयैकादशस्थानवर्जितानि स्थानानि नंति, तत्र सूर्यभौमौ दशमस्थानं 'न हतः' इतिवत्सूर्यो वा भौमो वा चेल्लग्नाधीशः सन् लग्नचतुर्थसप्तमस्थानगतो भवति तदा केंद्रगतत्वेन 'नंति कुराख्यायवर्ज हि भावान्' इति तस्यापवादांतरमप्यस्तु न काप्यस्माकं हानिः । यत्र तु विशिष्यस्थानविशेषो ग्रहव्यक्तिविशेषश्वोच्यते । यथा-'शुक्रश्चास्तं मृत्युमूर्तिस्तथें,' 'हित्वा शनि दशमभावगतं हिमांशुम्' इति च । तत्रैतस्माद्विशेषवाक्यान्निषेधप्राबल्यमेवास्ति । यथा-शुक्रश्चेल्लग्नाधीशः सन् सप्तमाख्यकेंद्रे चंद्रो वा लग्नाधीशः सन् लग्न एव चेत्कर्के शनिर्वा लग्नाधीशः सन् दशमाख्यकेंद्रे एव चेत्स्यात्तदा निषेध एव प्रबलः, 'सामान्यशास्त्रतो नूनं विशेषो बलवान्भवेत्' इत्युक्तेः । मतो निषिद्धद्रव्यतिरिक्तकेंद्रेषु स्थिताः सोमशुक्रशनयः सामान्यतोऽरिष्टपरिहारकर्तारः स्युरिति कथमस्य सामान्यवाक्यत्वम् ? उच्यते,-लग्नाधिप इत्यत्र लग्नपदेन द्वादशराशय उच्यते। तेषामधिप इत्यनेन सप्तापि ग्रहाः प्रोच्यते । केंद्रपदेन च चत्वारि स्थानान्युच्यते इति परिहारवाक्ये सामान्यतोऽभिहितमस्ति । निषेधवाक्ये तूभयोः स्थानविशेषग्रहविशेषयोरभिधानमिति प्रागुक्तदोषो वज्रायितः । एवं लालाटिकयोगेष्वपि ध्येयम् । यथा-'प्राच्यादौ तरणिस्तनौ भृगुसुतो लाभव्यये भूसुतः कर्मस्थः' इति लालाटिकयोगवाक्येषु यदि प्राच्यां यातुः सिंहलग्नाधीशः सूर्यों लग्न एव चेत्तदा लालाटिकत्वेन दोष एवं प्रबलो नतु लग्नाधीशस्य केंद्रगतत्वेन सिंहलग्नं शुभदम् । एवं दक्षिणस्यां यातुर्मेषवृश्चिकयोरधीशो भौमः क्रमेण मकरस्थ उच्चगतः सिंहस्थो मित्रगृहगतोऽपि तथैव । एवं पश्चिमायां यातुर्मकरकुंभयोरधीशः शनिः क्रमेण कर्के सिंहे वा तथैव । एवं उत्तरस्यां यातुमिथुनकन्यालग्नयोरधीशो बुधः क्रमेण कन्यायां धनुषि वा चेत्तदापि तथैव । उच्चगतत्वादिकं तु दैवागतम् 'केंद्रे दिगधीशे' (१११४७) इति परिहारवाक्यं तु तत्तत्स्थानविशेषव्यतिरिक्तकेंद्रपरं द्रष्टव्यम् । यदिदं वाक्यमेप्वपि केंद्रेषु प्रवर्तते तदा प्राचीदक्षिणाप्रतीच्युत्तरासु महादिक्षु लालाटिकदोषाभिधानं खपुष्पायितमेव स्यात्तासु विषयालाभात् । किंतु विदिक्षु चतसृषु विशिष्यैव लालाटिकदोषाभिधानं वक्तव्यं स्यान्मुनीनाम् । एवं च-'लग्नपो मृत्युदो याने रंध्रास्तारिव्ययोपगे' इति गुरुवाक्येऽपि लग्नाधीशस्य सप्तमस्थानगतत्वमशुभमुक्तम् । तत्र सप्तमस्थानस्य केंद्रत्वेन परिहारोऽनुचित एव । अन्यथा दोषोक्तिरेव वक्तव्या भवेदिति । ननु-'एको हि दोषो गुणसन्निपाते निमजतींदोः किरणेष्विवांकः' इति दृष्टांताल्लग्नस्य समीचीनस्थानस्थितबहुग्रहसाहित्येन सबलत्वात्तत्तदोषाभाव इति चेत् चिंत्यमेतत् । यतो 'वक्रः पंथा मीनलग्नेऽशके वा कार्यासिद्धिः स्यान्निवृत्तिश्च तत्र । नेष्टः कुंभोऽप्युद्गमेशस्थितो वा लग्ने चाप्यंशे च नौयानमिष्टम्' इति स्वरूपतो दुष्टयोः कुंभमीनसंज्ञकयोर्यात्रा
SR No.002342
Book TitleMuhurt Chintamani
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1945
Total Pages484
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy