________________
" मुहूर्तचिंतामणिः। [कदा याना सर्वथा नेष्टा भूमिसुतस्तथोष्णकिरणः कुर्वति दुःखं महत् ॥ ४॥ कुर्यादर्थस्य सिद्धिं सुत. भवनगतो वाक्पतिः शत्रुनाशं शुक्रः शीतांशुपुत्रः सुरगुरुसदृशं युद्धकाले करोति । सूर्यश्चंद्रश्च भौमो दिनकरतनयः सिंहिकानंदनोऽसौ सर्वे ते पंचमस्था विविधभयकराः पार्थिवानां रणोाम् ॥ ५॥ शत्रुस्थाने नराणां दिनकरतनयो भूमिपुत्रस्तथाः शीतांशुदैत्यमंत्री रजनिकरसुतः सैंहिकेयोऽथ जीवः । कुर्वत्येवार्थलाभं परबलमथनं सिद्धिमामोति कार्य शत्रुघ्नं भूमिपानां भवति हि गमने धर्मकामार्थसिद्धिः ॥ ६॥ नाशं शुक्रदिवाकराकेतनया राहुस्तथा भूमिजः क्षिप्रं शत्रुवशं नयंति पथिकं स्थाने स्थिताः सप्तमे । सौम्यो मित्रसमागमं सुरगुरुः स्त्रीवित्तलाभं नृणां चंद्रोऽभीष्टसुखं ददाति च धनं यात्रासु जामित्रगः ॥ ७ ॥ आरोग्यं चंद्रपुत्रो जनयति भृगुजः सर्वकामार्थसिद्धिं जीवो रक्षत्यशेषं सुतमिव जननी यात्रिकं नैधनस्थः । चंद्राकौं चेत्तमो वा जनयति नियतं शत्रुपक्षस्य वृद्धि भौमश्चार्कात्मजो वा जनयति सततं तस्करेभ्यो भयं च ॥ ८॥ शुक्रोऽतिसौख्यं नवमो बुधश्च जीवो जयश्रीधनधान्यलाभम् । चंद्रार्कसौरा नवमाः सभौमाः कुर्वत्यनेकान्पुरुषस्य दोषान् ॥ ९॥ कर्मस्थानस्थितोऽकः प्रचुरजयकरः पुष्टिदः शीतरश्मिर्जीवः संग्रामकाले भवति शुभकरः सर्वकार्यप्रदो ज्ञः । शुक्रः साम्राज्यलक्ष्मी वितरति च महीनंदनः प्राज्यकीर्ति राहुर्वैरापनुत्तिं जनयति सततं दीर्घरोग तथार्किः ॥ १० ॥ शशिबुधगुरुशुक्राः सूर्यराह्वार्किभौमा ब्रजति हि नरनाथे क्षिप्रमेकादशस्थाः । द्रुतमिह रिपुवर्ग नंति नूनं प्रयातुर्विचरति गजराजो युद्धमध्यस्थितो वा ॥ ११॥ क्षितिजरविसुतार्काः सैंहिकेयो नराणां जनयति रजनीशः श्रेष्ठभृत्येषु भेदम् । रिपुजयधननाशं भृत्यनाशं च कुर्युर्यदि बुधगुरुशुक्रा द्वादशस्था भवंति ॥ १२ ॥' इति बादरायणीययात्रायां भावफलानि । एवं सम्यग्याबालग्नं दत्त्वा यात्रा कारणीयेति तात्पर्यार्थः । तत्रैकस्मिन्नपि लग्नभंगिनि ग्रहे सति यात्रा सर्वथा न विधेया । तथा हि-मृत्युमूर्योश्चंद्रस्य स्थितिर्लग्नभंगिनी । सप्तमस्थानस्थितिः शुक्रस्य । दशमस्थानस्थितिः शनैश्चरस्य । एवंविधे ग्रहेऽन्येषु ग्रहेषु शुभफलदातृष्वपि नैव कार्या यात्रा । अत्र केचिद्ववल्गुःचेल्लमाधीशः केंद्रे स्यात्तदा लग्नभंगी ग्रहो दोषदो न भवति । यथा-मकरलग्नाधीशः शनिस्तुलायां दशमे स्यात् , कुंभलग्नाधीशो वृश्चिके, तथा वृषलमाधीशो भृगुः सप्तमे वृश्चिके स्यात् तुलाधीशश्च मेथे, तथा कर्कराशिस्थितश्चंद्रो यात्रालग्ने कर्काख्ये स्यात् ; एतादृशे यात्रालग्ने दोषो नास्तीति । उक्तं च जातकेऽपि-'लग्नाधिपो यदा केंद्रे लग्नादेकादशालये । सर्वग्रहकृतं रिष्टमेकोऽपि विलयं नयेत् ॥' इति । सत्यम् । इदं तावद्वाक्यं जातकविषयकमेवेति । तत्रैवोत्पत्तिसत्त्वात् । 'ये जातकोक्तक्षितिपालयोगैर्महीभृतो यांति रिपून्विजेतुम् । तेषां प्रकोपाग्निरुपैति शांतिं विद्वेषियोषाश्रुजलप्रवाहैः ॥' इतिवदतिदेशाभावाच । प्राग्वाक्यं तु निर्मुलमेव निबंधेष्वदृष्टत्वात् । सत्यपि वा समूलत्वे