________________
लग्नादिभावस्थग्रहफलानि ] यात्राप्रकरणम् ११ ।
३६९ ते ।' इति नारदोक्तेः । एवंविधसंज्ञाकथनप्रयोजनं तु क्रूरग्रहसाहित्ये तत्तद्भावानां पीडा शुभग्रहसाहित्ये तद्भावानां शुभमित्युत्सर्गः ॥ ५२ ॥
अथ विशिष्यशुभाशुभफलं शालिन्याहकेंद्रे कोणे सौम्यखेटाः शुभाः स्युर्याने पापाख्यायषट्खेषु चंद्रः। नेष्टो लग्नांत्यारिरंधे शनिः खेऽस्ते शुक्रो लग्नेण्नगांत्यारिरंध्रे ५३ __ केंद्रे इति ॥ केंद्राणि ॥४७॥१०, कोणं ९।५, यदि सौम्यग्रहाः केंद्रे कोणे स्युस्तदा याने शुभफलदाः स्युः; अर्थादन्येषु भावेष्वशुभफलदाः । पापग्रहास्यायषदखेषु तृतीयैकादशषष्ठदशमस्थानस्थाः शुभफलदाः; अर्थादन्येषु अशुभफलदाः । चंद्रो लग्नात्यारिरंधे लग्नद्वादशषष्ठाष्टमेषु स्थितो नेष्टोऽशुभफलदः । शनिः खे दशमे नेष्टोऽशुभफलदः । शुक्रोऽस्ते सप्तमे नेष्टः । यदाह वसिष्ठः-नंति क्रूरास्त्रिषष्ठायभावान्भित्त्वा परान्सदा । पुष्णंति सौम्यखचराः षष्ठाष्टांत्यं विना परान् ॥ लग्नषष्ठाष्टमं हंति चंद्रः शुक्रोऽस्तगस्तथा । मृत्युलग्नस्थितश्चंद्रो यातुर्मृत्युप्रदः सदा ॥' इति । अन्यत्रापि 'केंद्रत्रिकोणगैः सौम्यैस्त्रिभवारिगतैः परैः । अलग्नरिःफचंद्रेण यात्राभीष्टफलप्रदा ॥' इति । वराहोऽपि-'प्रायो जगुः सहजशत्रुदशायसंस्थाः पापाः शुभाः सवितृजं परिहृत्य खस्थम् । सर्वत्रगाः शुभफलं जनयंति सौम्यास्त्यक्त्वाऽस्तसंस्थममरारिगुरुं यियासोः ॥' इति । श्रीपतिरपि-'क्रूरग्रहाख्यरिदशायगताः शुभाः स्युर्हित्वा शनि दशमभावगतं यियासोः । मूर्त्यादिभावनिचये सकलेऽपि सौम्याः श्रेष्ठा भृगोस्तनयमस्तगतं विहाय ॥' इति । लग्नेडिति । लग्नेट यात्रालग्नस्वामी नगांत्यारिरंध्रे सप्तमद्वादशषष्ठाष्टमस्थश्चेत्तदानिष्टोऽशुभफलदो मृत्युद इत्यर्थः । यदाह गुरुः–'लग्नपो मृत्युदो याने रंध्रास्तारिव्ययोपगः । केऽप्याहुर्भयदो धर्म शेषस्थाने शुभावहः ॥' इति । अथात्र यात्राकालीनलग्ने लग्नादिद्वादशभावावस्थितानां ग्रहाणां फलानि बादरायणप्रोक्तानि लि. ख्यते । यथा-'राहुभौमदिवाकरेंदुरविजाः प्रस्थानलग्ने गताः क्षुत्तृष्णाऽग्निविषायुधज्वरभवा रोगाश्च नानाविधाः । जीवः सोमसुतस्तथैव भृगुजो यात्रोदयस्थो नृणां सा यात्रा धनधान्यभोगसुखदा पुण्यैः कृतैर्लभ्यते ॥ १ ॥ कोशस्थाने नराणामसुरगुरुबुधैर्धर्मकामार्थलाभं पुत्रोत्पत्तिं च जीवो धनसुखमतुलं शत्रुपक्षक्षयं च । मंदो बंधं सुदीर्घ मृतिमवनिसुतः कोशहानि च भास्वांश्चंद्रः कुर्यान्नरेंद्रं प्रियजनसहितं राहुरुत्पातरूपम् ॥२॥ प्रस्थाने भूमिपस्य क्षितिसुतरविजौ तिग्मभानुश्च राहुः शुक्रश्चंद्रात्मजो वा सुरगुरुरथवा शीतरश्मिर्धनायुः । दुश्चिक्यस्थानसंस्थो गजतुरगरथान्प्राप्य सर्वार्थसिद्धिं जित्वा शत्रूनशेषान्विचरति वसुधागोकुले गोपवेषः ॥३॥ बंधुस्थानगतो ददाति विपुलान्भोगान् भृगोरात्मजो जीवः शत्रुविनाशमिच्छति महालाभं करोतींदुजः । हानि बंधुगतः करोति रविजो वृद्धिं क्षयं चंद्रमा राहु
१ हित्वा इति पाठः।