________________
३६०
'मुहूर्तचिंतामणिः। [लग्नादिद्वादशभावसंज्ञाः भूपादिः प्रवसेद्देशान्तरं गच्छेत् । अयं तृतीयो योगः। वस्त्रंत्यपुष्ये धनिष्ठारेवतीपुष्येषु निजसीम्नि स्वनगरप्रांते प्रस्थितः सन् यदि एकरात्रोषितः स्यात्तदाऽवनीशो राजा क्ष्मां भूमि, शत्रोरिति शेषः। लभते जयेन प्रामोतीत्यर्थः । अयं चतुर्थो योगः। यदाह बृहद्यात्रायां वराहः-'सौम्ये गत्वाध्युष्य रौद्रेऽदितीशे संप्रस्थाता बाधते शत्रुसंघान् । मैत्रे गत्वा पौरुहूते समुष्य मूले यायाच्छत्रुनाशाय भूपः ॥ हस्ते गत्वा स्वातिचित्रे समुष्य शक्राम्योर्भे प्रस्थितो बाधतेऽरीन् । तिष्ये पौष्णे वासवे चैकरानं सीम्नि स्थित्वा भूतिमामोति याता॥' इति । क्वचिन्मृगे प्रस्थायायां पुनर्वसौ च स्थित्वा पुष्ये गच्छेदित्युक्तम् । यदाह गुरु:-'सौम्ये गत्वा समध्युष्य रौद्रादित्ये व्रजेत्पुनः । पुष्येऽतिसंपदे विद्वाल्लभते जीवसंपदः॥' इति । विशेषमाह वराहः-'यथेष्टवेलागमनं प्रशस्तं हस्तेदवोपेंद्रसुरेशभेषु । कृत्वा प्रयाणं श्रवणे श्रियोऽर्थी वसेन्न जातु क्षितिपः स्वसीम्नि ॥' इति । उपेंद्र श्रवणः । सुरेशभं-ज्येष्ठा ॥ ४९-५० ॥ अथ समयबलमनुष्टुभाहउषःकालो विना पूर्वां गोधूलिः पश्चिमां विना । विनोत्तरां निशीथः सन् याने याम्यां विनाऽभिजित् ॥५१॥
उषःकाल इति ॥ स्पष्टार्थ पद्यम् । सन्शब्दश्वरणचतुष्टयेऽपि संबध्यते । निशीथोऽर्धरात्रम् । याने यात्रायाम् । सर्वत्र विनायोगे द्वितीया, 'पृथग्विनानानाभिस्तृतीयान्यतरस्याम्' इति पक्षे द्वितीयाया अपि विधानात् । अत्र हि 'दग्धा दिगैशी ज्वलिता दिगेंद्री' इति वसंतराजोक्तरीत्या तुर्यस्य तत्तद्दिगवस्थानात्तस्यां तस्यां दिशि यात्रा निषिद्धेति युक्तिसिद्धोऽयमर्थ उपनिबद्धः । वराहेण दिग्विशेष समयविशेषः प्रशस्तोऽभिहितः। यथा-'पूर्वाह्ने तूत्तरां गच्छेन्मध्याह्ने पूर्वतो व्रजेत् । अपराह्ने व्रजेद्याम्यां मध्यरात्रे तु पश्चिमाम् ॥' इति । वसिष्ठोऽपि-'पूर्वाह्नेऽप्युत्तरां गच्छेत्प्राची मध्यंदिने तथा। दक्षिणा चापराह्ने तु पश्चिमामर्धरात्रके ॥ न तत्रांगारको विष्टियंतीपातो न वैधतिः । सिध्यंति सर्वकार्याणि यात्रायां दक्षिणे रविः॥' इति । अत्राभिजित्प्रशंसामाह श्रीपतिः-'भष्टमो ह्यभिजिदाह्वयक्षणो दक्षिणाभिमुखयानमंतरा। कीर्तितोऽपरककुप्सु सूरिभिर्यायिनामभिमतार्थसिद्धये ॥' इति ॥५१॥ - अथ लग्नादिभावानां संज्ञा अनुष्टुभाहलग्नाद्भावाः क्रमाद्देह १ कोश २ धानुष्क ३ वाहनम् ४ । मंत्रो५ऽरिदमार्ग आयुश्चव्हृद्९ व्यापारा१०गम११ व्ययाः१२ __ लग्नादिति ॥ हृन्मनः, 'स्वातं हृन्मानसं मनः' इत्यभिधानात् । भागमः प्राप्तिः । अन्यत्स्पष्टार्थ पद्यम् । 'मूर्तिः कोशो धन्विनश्च वाहनं मंत्रसंज्ञकः । शत्रुर्मार्गस्तथायुश्च मनोव्यापारसंज्ञकः॥प्राप्तिरप्राप्तिरुदयाद्भावाः स्युादशैव