________________
पर्युषितयात्रायोगाः] यात्राप्रकरणम् ११।।
३६७ बृजेन्नृपः' इति । वराहोऽपि-'लग्ने भानुः सुतरिपुगतश्चंद्र आरो नभःस्थः पातालस्थो हिमकरसुतः स्वत्रिगो देवमंत्री। तद्वच्छुक्रो व्ययभवगतो भास्करिः सप्तमस्थो राहुर्नित्यं निधननवगः स्वां दिशं वारयति ॥' यत्तु वसिष्ठवाक्ये'राशीनेको द्वाविनाक्रांतराशेरप्रादक्षिण्याद्विन्यसेदिग्विदिक्षु । यद्दियाशी लग्नगे संमुखत्वं तद्दिग्यातुर्मृत्युदस्तद्दिगीशः ॥' इति, तदयुक्तं प्रतिभाति । तथा हिसूर्याधिष्ठितराशेरप्रादक्षिण्येन द्वादशराशिचके दिश्येको विदिशि द्वावित्येवं व्यस्ते 'सूर्य सितः' (१११४६) इत्यादिना प्राच्याद्यष्टदिक्षु ग्रहन्याससहिते सति सूर्याक्रांतराशेश्चेञ्चतुर्थो बुधस्तदोत्तरस्यां लालाटिकः स्यात् , स चासंभवनीया, न हि केनापि गणितप्रकारेण सूर्याच्चतुर्थो बुधः स्यात् । अत एव वराहोऽपि'चतुर्थभवने सूर्याज्ञसितौ भवतः कथम्' इति । अन्यच्च सूर्याधिष्ठितराशेः सप्तमः शनिः पश्चिमायां लालाटिकः। तत एव दशमस्थो भौमो दक्षिणस्याम् । एवमेव सर्वेऽपि ग्रहाः लालाटिका इत्यापद्येत । इष्यते च लग्नराशेरेव । एवं सति सकलमुनिविरोधश्चापतेत् । तस्माद्वसिष्ठसंहितापुस्तके 'इनाक्रांतराशेः' इति लेखकभ्रमसंभूतपाठः । तस्मात् 'राशीनेको द्वावितो लग्नराशेः' इति पाठः साधीयान् कल्प्यः। एवं सति चतुर्थस्थानगतबुधासंभवः सकलमुनिविरोधश्च नास्ति । रत्नकोशे-'योऽधिपतिर्दिशि यस्यास्तस्मिंस्तत्स्थे न तां दिशं यायात् । अनुकूले च दिगीशे गंतव्यं कंटकोपगते ॥' इति । अत्र सूर्यभौमशनिबुधाना. मस्ति च कंटकोपगतत्वमस्ति च लालाटिकत्वम् । अन्येषां शुक्रादीनामुभयरूपत्वासंभव एव। तत्र लालाटिकस्थानव्यतिरिक्त स्थानत्रयं कंटकशब्देन व्यवहर्तव्यम् । बहुव्यापकत्वाल्पव्यापकत्वरूपसामान्यविशेषभावसत्त्वात् । तस्मालालाटिकव्यतिरिक्ते कंटकस्थाने यदि दिगीशस्तदा शुभफलदा यात्रा, अन्यथा ह्यशोभनेति हृदयम् ॥ ४८ ॥ अथ पर्युषितयात्रायोगचतुष्टयमनुष्टुभेंद्रवज्राभ्यामाहमृगे गत्वा शिवे स्थित्वाऽदितौ गच्छञ्जयेद्रिपून् । मैत्रे प्रस्थाय शाके हि स्थित्वा मूले व्रजस्तथा ॥४९॥ प्रस्थाय हस्तेऽनिलतक्षधिष्ण्ये स्थित्वा जयार्थी प्रवसेद्विदैवे । वस्वंत्यपुष्ये निजसीनि चैकरात्रोषितः मां लभतेऽवनीशः ५०
मृगे इति ॥ प्रस्थायेति ॥ मृगशिरसि स्वगृहाद्यातव्यदिगभिमुखं कस्यचिदिष्टस्य गेहे गत्वा प्रस्थायार्द्रायां तस्मिन्नेव गृहे स्थित्वोषित्वाऽदितौ पुनवैसौ गच्छन् तद्नेहं त्यक्त्वा ग्रामावहिरेव गच्छन्सन् रिपून शत्रून् जयेत् । अयमेको योगः। एवमेव मैत्रेऽनुराधायां प्रस्थाय शाके ज्येष्ठायां स्थित्वा मूले व्रजन्सन् तथा शत्रून् जयेदित्यर्थः। अयं द्वितीयो योगः । तथा हस्ते प्रस्थायानिलतक्षधिष्ण्ये स्वातीचित्रानक्षत्रद्वये स्थित्वा द्विदैवे विशाखायां जयार्थी